शौचात् स्वाङ्गजुगुप्सा परैर् असंसर्गः
सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च
संतोषाद् अनुत्तमः सुखलाभः
कायेन्द्रियसिद्धिर् अशुद्धिक्षयात् तपसः
स्वाध्यायाद् इष्टदेवतासंप्रयोगः
समाधिसिद्धिर् ईश्वरप्रणिधानात्
स्थिरसुखम् आसनम्
प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम्
ततो द्वन्द्वानभिघातः
तस्मिन् सति श्वासप्रश्वासयोर् गतिविच्छेदः प्राणायामः
बाह्याभ्यन्तरस्तम्भवृत्तिर् देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः
बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः
ततः क्षीयते प्रकाशावरणम्
धारणासु च योग्यता मनसः
स्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः
ततः परमा वश्यतेन्द्रियाणाम्
देशबन्धश् चित्तस्य धारणा
तत्र प्रत्ययैकतानता ध्यानम्
तद् एवार्थमात्रनिर्भासं स्वरूपशून्यम् इव समाधिः
त्रयम् एकत्र संयमः
तज्जयात् प्रज्ञालोकः
तस्य भूमिषु विनियोगः
त्रयम् अन्तरङ्गं पूर्वेभ्यः
तद् अपि बहिरङ्गं निर्बीजस्य
व्युत्थाननिरोधसंस्कारयोर् अभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः
तस्य प्रशान्तवाहिता संस्कारात्
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः
ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः
एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः
शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी