ते प्रतिप्रसवहेयाः सूक्ष्माः
ध्यानहेयास् तद्वृत्तयः
क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः
सति मूले तद्विपाको जात्यायुर्भोगाः
ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात्
परिणामतापसंस्कारदुःखैर् गुणवृत्तिविरोधाच् च दुःखम् एव सर्वं विवेकिनः
हेयं दुःखम् अनागतम्
द्रष्टृदृश्ययोः संयोगो हेयहेतुः
प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम्
विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि
द्रष्टा दृशिमात्रः शुद्धो ऽपि प्रत्ययानुपश्यः
तदर्थ एव दृश्यस्यात्मा
कृतार्थं प्रति नष्टम् अप्य् अनष्टं तदन्यसाधारणत्वात्
स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः
तस्य हेतुर् अविद्या
तदभावात् संयोगाभावो हानं तद्दृशेः कैवल्यम्
विवेकख्यातिर् अविप्लवा हानोपायः
तस्य सप्तधा प्रान्तभूमिः प्रज्ञा
योगाङ्गानुष्ठानाद् अशुद्धिक्षये ज्ञानदीप्तिर् आ विवेकख्यातेः
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो ऽष्टाव् अङ्गानि
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः
जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम्
शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः
वितर्कबाधने प्रतिपक्षभावनम्
वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम्
अहिंसाप्रतिष्ठायां तत्संनिधौ वैरत्यागः
सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम्
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम्
ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः
अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः