दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः
तत्प्रतिषेधार्थम् एकतत्त्वाभ्यासः
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश् चित्तप्रसादनम्
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य
विषयवती वा प्रवृत्तिर् उत्पन्ना मनसः स्थितिनिबन्धनी
विशोका वा ज्योतिष्मती
वीतरागविषयं वा चित्तम्
स्वप्ननिद्राज्ञानालम्बनं वा
यथाभिमतध्यानाद् वा
परमाणुपरममहत्त्वान्तो ऽस्य वशीकारः
क्षीणवृत्तेर् अभिजातस्येव मणेर् ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः
तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता
सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम्
ता एव सबीजः समाधिः
निर्विचारवैशारद्ये ऽध्यात्मप्रसादः
ऋतंभरा तत्र प्रज्ञा
श्रुतानुमानप्रज्ञाभ्याम् अन्यविषया विशेषार्थत्वात्
तज्जः संस्कारो ऽन्यसंस्कारप्रतिबन्धी
तस्यापि निरोधे सर्वनिरोधान् निर्बीजः समाधिः
तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः
समाधिभावनार्थः क्लेशतनूकरणार्थश् च
अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः
अविद्या क्षेत्रम् उत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम्
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिर् अविद्या
दृग्दर्शनशक्त्योर् एकात्मतेवास्मिता
सुखानुशयी रागः
दुःखानुशयी द्वेषः
स्वरसवाही विदुषो ऽपि तथा रूढो ऽभिनिवेशः