तीव्रसंवेगानाम् आसन्नः
मृदुमध्याधिमात्रत्वात् ततो ऽपि विशेषः
ईश्वरप्रणिधानाद् वा
क्लेशकर्मविपाकाशयैर् अपरामृष्टः पुरुषविशेष ईश्वरः
तत्र निरतिशयं सर्वज्ञबीजम्
पूर्वेषाम् अपि गुरुः कालेनानवच्छेदात्
तस्य वाचकः प्रणवः
तज्जपस् तदर्थभावनम्
ततः प्रत्यक्चेतनाधिगमो ऽप्य् अन्तरायाभावश् च
व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास् ते ऽन्तरायाः
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः
तत्प्रतिषेधार्थम् एकतत्त्वाभ्यासः
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश् चित्तप्रसादनम्
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य
विषयवती वा प्रवृत्तिर् उत्पन्ना मनसः स्थितिनिबन्धनी
विशोका वा ज्योतिष्मती
वीतरागविषयं वा चित्तम्
स्वप्ननिद्राज्ञानालम्बनं वा
यथाभिमतध्यानाद् वा
परमाणुपरममहत्त्वान्तो ऽस्य वशीकारः
क्षीणवृत्तेर् अभिजातस्येव मणेर् ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः
तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता
सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम्
ता एव सबीजः समाधिः
निर्विचारवैशारद्ये ऽध्यात्मप्रसादः
ऋतंभरा तत्र प्रज्ञा
श्रुतानुमानप्रज्ञाभ्याम् अन्यविषया विशेषार्थत्वात्
तज्जः संस्कारो ऽन्यसंस्कारप्रतिबन्धी