एकसमये चोभयानवधारणम्
चित्तान्तरदृश्ये बुद्धिबुद्धेर् अतिप्रसङ्गः स्मृतिसंकरश् च
चितेर् अप्रतिसंक्रमायास् तदाकारापत्तौ स्वबुद्धिसंवेदनम्
द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम्
तद् असंख्येयवासनाभिश् चित्रम् अपि परार्थं संहत्यकारित्वात्
विशेषदर्शिन आत्मभावभावनानिवृत्तिः
तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम्
तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः
हानम् एषां क्लेशवद् उक्तम्
प्रसंख्याने ऽप्य् अकुसीदस्य सर्वथा विवेकख्यातेर् धर्ममेघः समाधिः
ततः क्लेशकर्मनिवृत्तिः
तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज् ज्ञेयम् अल्पम्
ततः कृतार्थानां परिणामक्रमसमाप्तिर् गुणानाम्
क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः
पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिर् इति