ततो ऽणिमादिप्रादुर्भावः कायसंपत् तद्धर्मानभिघातश् च
रूपलावण्यबलवज्रसंहननत्वानि कायसंपत्
ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमाद् इन्द्रियजयः
ततो मनोजवित्वं विकरणभावः प्रधानजयश् च
सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च
तद्वैराग्याद् अपि दोषबीजक्षये कैवल्यम्
स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनर् अनिष्टप्रसङ्गात्
क्षणतत्क्रमयोः संयमाद् विवेकजं ज्ञानम्
जातिलक्षणदेशैर् अन्यतानवच्छेदात् तुल्ययोस् ततः प्रतिपत्तिः
तारकं सर्वविषयं सर्वथाविषयम् अक्रमं चेति विवेकजं ज्ञानम्
सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् इति
जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः
जात्यन्तरपरिणामः प्रकृत्यापूरात्
निमित्तम् अप्रयोजकं प्रकृतीनां वरणभेदस् तु ततः क्षेत्रिकवत्
निर्माणचित्तान्य् अस्मितामात्रात्
प्रवृत्तिभेदे प्रयोजकं चित्तम् एकम् अनेकेषाम्
तत्र ध्यानजम् अनाशयम्
कर्माशुक्लाकृष्णं योगिनस् त्रिविधम् इतरेषाम्
ततस् तद्विपाकानुगुणानाम् एवाभिव्यक्तिर् वासनानाम्
जातिदेशकालव्यवहितानाम् अप्य् आनन्तर्यं स्मृतिसंस्कारयोर् एकरूपत्वात्
तासाम् अनादित्वं चाशिषो नित्यत्वात्
हेतुफलाश्रयालम्बनैः संगृहीतत्वाद् एषाम् अभावे तदभावः
अतीतानागतं स्वरूपतो ऽस्त्य् अध्वभेदाद् धर्माणाम्
ते व्यक्तसूक्ष्मा गुणात्मानः
परिणामैकत्वाद् वस्तुतत्त्वम्
वस्तुसाम्ये चित्तभेदात् तयोर् विभक्तः पन्थाः
न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात्
तदुपरागापेक्षित्वाच् चित्तस्य वस्तु ज्ञाताज्ञातम्
सदा ज्ञाताश् चित्तवृत्तयस् तत्प्रभोः पुरुषस्यापरिणामित्वात्
न तत् स्वाभासं दृश्यत्वात्