क्रमान्यत्वं परिणामान्यत्वे हेतुः
परिणामत्रयसंयमाद् अतीतानागतज्ञानम्
शब्दार्थप्रत्ययानाम् इतरेतराध्यासात् संकरस् तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम्
संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम्
प्रत्ययस्य परचित्तज्ञानम्
न च तत् सालम्बनं तस्याविषयीभूतत्वात्
कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासंप्रयोगे ऽन्तर्धानम्
सोपक्रमं निरुपक्रमं च कर्म तत्संयमाद् अपरान्तज्ञानम् अरिष्टेभ्यो वा
मैत्र्यादिषु बलानि
बलेषु हस्तिबलादीनि
प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम्
भुवनज्ञानं सूर्ये संयमात्
चन्द्रे ताराव्यूहज्ञानम्
ध्रुवे तद्गतिज्ञानम्
नाभिचक्रे कायव्यूहज्ञानम्
कण्ठकूपे क्षुत्पिपासानिवृत्तिः
कूर्मनाड्यां स्थैर्यम्
मूर्धज्योतिषि सिद्धदर्शनम्
प्रातिभाद् वा सर्वम्
हृदये चित्तसंवित्
सत्त्वपुरुषयोर् अत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थात् स्वार्थसंयमात् पुरुषज्ञानम्
ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते
ते समाधाव् उपसर्गा व्युत्थाने सिद्धयः
बन्धकारणशैथिल्यात् प्रचारसंवेदनाच् च चित्तस्य परशरीरावेशः
उदानजयाज् जलपङ्ककण्टकादिष्व् असङ्ग उत्क्रान्तिश् च
समानजयाज् ज्वलनम्
श्रोत्राकाशयोः संबन्धसंयमाद् दिव्यं श्रोत्रम्
कायाकाशयोः संबन्धसंयमाल् लघुतूलसमापत्तेश् चाकाशगमनम्
बहिर् अकल्पिता वृत्तिर् महाविदेहा ततः प्रकाशावरणक्षयः
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद् भूतजयः