अथ योगानुशासनम्
योगश् चित्तवृत्तिनिरोधः
तदा द्रष्टुः स्वरूपे ऽवस्थानम्
वृत्तिसारूप्यम् इतरत्र
वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः
प्रमाणविपर्ययविकल्पनिद्रास्मृतयः
प्रत्यक्षानुमानागमाः प्रमाणानि
विपर्ययो मिथ्याज्ञानम् अतद्रूपप्रतिष्ठम्
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः
अभावप्रत्ययालम्बना वृत्तिर् निद्रा
अनुभूतविषयासंप्रमोषः स्मृतिः
अभ्यासवैराग्याभ्यां तन्निरोधः
तत्र स्थितौ यत्नो ऽभ्यासः
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः
दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्
तत् परं पुरुषख्यातेर् गुणवैतृष्ण्यम्
वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषो ऽन्यः
भवप्रत्ययो विदेहप्रकृतिलयानाम्
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम्
तीव्रसंवेगानाम् आसन्नः
मृदुमध्याधिमात्रत्वात् ततो ऽपि विशेषः
ईश्वरप्रणिधानाद् वा
क्लेशकर्मविपाकाशयैर् अपरामृष्टः पुरुषविशेष ईश्वरः
तत्र निरतिशयं सर्वज्ञबीजम्
पूर्वेषाम् अपि गुरुः कालेनानवच्छेदात्
तस्य वाचकः प्रणवः
तज्जपस् तदर्थभावनम्
ततः प्रत्यक्चेतनाधिगमो ऽप्य् अन्तरायाभावश् च
व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास् ते ऽन्तरायाः