जनकस्येव सद्बुद्धेस् स्वयम् एव विवेकिनः । विकासम् एत्य् अयं देही देवः प्रातर् इवाम्बुजम्
संशान्तमननं चित्तं विचारेण विलीयते । गलद्वर्णाकृतिस्पर्शम् आतपेन हिमं यथा
अयम् एवाहम् इत्य् अस्यां निशायाम् उदिते क्षये । स्वयं सर्वगतस् स्फारस् स्वालोकस् सम्प्रवर्तते
अयम् एवाहम् इत्य् अस्मिन् सङ्कोचे विलयं गते । अनन्तभुवनव्यापी विस्तारस् सम्प्रजायते
जनकेन परित्यक्ता यथाहङ्कारवासना । तथा त्वम् अपि सद्बुद्धे विचार्यान्तः परित्यज
अहङ्काराम्बुदे क्षीणे चिद्व्योम्नि विमले ऽमलः । नूनं प्रकटताम् एति स्वालोको भास्करः परः
एतावद् एवातितमो यद् अहम्भावभावनम् । तस्मिञ् शमम् उपायाते प्रकाश उपजायते
नाहम् अस्मि न चान्यो ऽस्ति न च नास्तीति भावितम् । मनः प्रशान्तिम् आयातं नोपादेयेषु मज्जति
उपादेयानुपतनं हेयैकान्तविवर्जनम् । यद् एतन् मनसो राम तं बन्धं विद्धि नेतरत्
मा खेदं भज हेयेषु मोपादेयपरो भव । हेयादेयदृशौ त्यक्त्वा शेषस्थस् स्वस्थतां व्रज
येषाम् इदम् उपादेयम् इदं हेयम् इति स्थितिः । विलीना ते न वाञ्छन्ति न त्यजन्तीह नेतरे
हेयोपादेयकलने क्षीणे यावन् न चेतसि । न तावत् समता भाति साभ्रे व्योम्नीव चन्द्रिका
अवस्त्व् इदम् इदं वस्तु यस्येति लुलितं मनः । तस्मिन् नोदेति समता शाहोट इव मञ्जरी
युक्तायुक्तैषणा यत्र लाभालाभविलासिनी । समतास्वच्छता तत्र कुतो नैराश्यहासिनी
एकस्मिन् ब्रह्मतत्त्वे ऽस्मिन् विद्यमाने निरामये । नानानानातया नित्यं किम् अयुक्तिः क्व युक्तता
ईप्सितानीप्सिताशङ्के मर्कट्यौ चित्तपादपे । चञ्चले स्फुरतो यस्मिन् कुतस् तस्येह सोम्यता
निराशता निर्भयता नित्यता समता ज्ञता । निरीहता निष्क्रियता सोम्यता निर्विकल्पता
धृतिर् मैत्री स्मृतिस् तुष्टिर् मुदिता मृदुभाषिता । हेयोपादेयनिर्मुक्तं ज्ञं यान्ति वनिता रताः
धावमानम् अधो भोगांश् चित्तं प्रत्याहरेद् बलात् । प्रत्याहारेण पतितम् अधो वारीव सेतुना
बाह्यान् अर्थान् इमांस् त्यक्त्वा तिष्ठन् गच्छन् स्वपञ् श्वसन् । सर्वथा सर्वदा सर्वान् आन्तरांश् च निवारयेत्
गृहीततृष्णाशफरि वासनाजालम् आबिलम् । संसारवारि प्रसृतं चिन्तातन्तुभिर् आततम्
अनया तीक्ष्णया तात च्छिन्द्धि बुद्धिशलाकया । वात्ययेवाम्बुदं कालो वहन्त्या वितते पदे
अस्य संसारवृक्षस्य मूलं दोषाङ्कुरास्पदम् । धुर्यधीरेण धैर्येण प्रोद्धरोद्धुरया धिया
मनसैव मनश् छित्त्वा विस्मृत्य चरमं मनः । वर्तमानम् अपि च्छित्त्वा च्छिन्नसंसारतां व्रज
मोहो विस्मृत्य संसारं न भूयः परिरोहति
तिष्ठन् गच्छञ् श्वसन् राम निवसन्न् उत्पतन् पतन् । असद् एवेदम् इत्य् अन्तर् निश्चित्यास्थां परित्यज
समताम् अलम् आश्रित्य सम्प्राप्तं कार्यम् आहरन् । अचिन्तयंस् तथाप्राप्तं विहरेह हि राघव
यथा सर्वर्तुलिङ्गानि न बिभर्ति बिभर्ति च । खम् एवम् इह कार्याणि कुरु मा कुरु वानघ
त्वम् एव वेत्ता त्वम् अजस् त्वम् आत्मा त्वं महेश्वरः । आत्मनो ऽव्यतिरिक्तं सत् त्वयेदम् आततं ततम्
येनास्माद् दृश्यसम्भाराद् अभितो भावनोज्झिता । स न सङ्गृह्यते दोषैर् हर्षामर्षविषादजैः