पामरैर् अपि भूपत्वं प्राप्तं प्रज्ञावशान् नरैः । स्वर्गापवर्गयोग्यत्वं प्राज्ञस्यैवेह दृश्यते
प्रज्ञया वादिनस् सर्वे स्वविकल्पविलासिनः । जयन्ति सुगतप्रख्या रवान् अब्धिरवा इव
चिन्तामणिर् इयं प्रज्ञा हृत्कोशस्था विवेकिनः । फलं कल्पलतेवैषा चिन्तितं सम्प्रयच्छति
भव्यस् तरति संसारं प्रज्ञया प्रोह्यते ऽधमः । शिक्षितः पारम् आप्नोति नावा नश्यत्य् अशिक्षितः
धीस् सम्यग्योजिता पारम् असम्यग्योजितापदम् । नरं नयति संसारे वहन्ती नौर् इवार्णवे
विवेकिनम् असम्मूढं प्राज्ञम् आशागणोत्थिताः । दोषा न परिबाधन्ते सन्नद्धम् इव सायकाः
प्रज्ञयेदं जगत् सर्वं सम्यग् एवाङ्ग दृश्यते । सम्यग्दर्शिनम् आयान्ति नापदो न च सम्पदः
पिधानं परमार्कस्य जडात्मा विततो ऽसितः । अहङ्काराम्बुदो मत्तः प्रज्ञावातेन पाट्यते
पदम् अतुलम् उपैतुम् इच्छता स्वं प्रथमम् इयं मतिर् एव लालनीया । फलम् अभिपतता कृषीवलेन प्रथमतरं ननु कृष्यते धरैव
एवं जनकवद् राम विचार्यात्मानम् आत्मना । पदं विदितवेद्यानाम् अचिरेणाधिगच्छसि
ये हि पाश्चात्यजन्मानः प्राज्ञा राजसजातयः । प्राप्नुवन्ति स्वयं प्राप्यं ते जना जनको यथा
तावत् तावद् विजित्यारीन् इन्द्रियाख्यान् यतेत ह । यावद् आत्मात्मनैवायम् आत्मन्य् एव प्रसीदति
प्रसन्ने सर्वगे देवे देवेशे परमात्मनि । स्वयम् आलोकिते सर्वाः क्षीयन्ते दुःखदृष्टयः
मुष्टयो मोहबीजानां वृष्टयो विविधापदाम् । कुदृष्टयः क्षयं यान्ति तस्मिन् दृष्टे परावरे
सदा जनकवद् राम सर्वारम्भवतात्मना । प्रज्ञयात्मानम् आलक्ष्य लक्ष्मीवान् उत्तमो भव
नित्यम् आत्तविचारस्य पश्यतश् चञ्चलं जनम् । जनकस्येव कालेन स्वयम् आत्मा प्रसीदति
न दैवं न च कर्माणि न धनानि न बन्धवः । शरणं भवभीतानां स्वप्रयत्नाद् ऋते नृणाम्
ये दैवनिष्ठाः कर्मादिकुविकल्पपरायणाः । तेषां मन्दा मतिस् तात नानुगम्या विनाशिनी
विवेकं परम् आश्रित्य विलोक्यात्मानम् आत्मना । धिया विरागोद्धुरया संसारजलधिं तरेत्
एषा सा कथिता राम नभःफलनिपातवत् । सुखदा ज्ञानसम्प्राप्तिर् अज्ञानतरुशातनी
जनकस्येव सद्बुद्धेस् स्वयम् एव विवेकिनः । विकासम् एत्य् अयं देही देवः प्रातर् इवाम्बुजम्
संशान्तमननं चित्तं विचारेण विलीयते । गलद्वर्णाकृतिस्पर्शम् आतपेन हिमं यथा
अयम् एवाहम् इत्य् अस्यां निशायाम् उदिते क्षये । स्वयं सर्वगतस् स्फारस् स्वालोकस् सम्प्रवर्तते
अयम् एवाहम् इत्य् अस्मिन् सङ्कोचे विलयं गते । अनन्तभुवनव्यापी विस्तारस् सम्प्रजायते
जनकेन परित्यक्ता यथाहङ्कारवासना । तथा त्वम् अपि सद्बुद्धे विचार्यान्तः परित्यज
अहङ्काराम्बुदे क्षीणे चिद्व्योम्नि विमले ऽमलः । नूनं प्रकटताम् एति स्वालोको भास्करः परः
एतावद् एवातितमो यद् अहम्भावभावनम् । तस्मिञ् शमम् उपायाते प्रकाश उपजायते
नाहम् अस्मि न चान्यो ऽस्ति न च नास्तीति भावितम् । मनः प्रशान्तिम् आयातं नोपादेयेषु मज्जति
उपादेयानुपतनं हेयैकान्तविवर्जनम् । यद् एतन् मनसो राम तं बन्धं विद्धि नेतरत्
मा खेदं भज हेयेषु मोपादेयपरो भव । हेयादेयदृशौ त्यक्त्वा शेषस्थस् स्वस्थतां व्रज