प्रज्ञावान् असहायो ऽपि विशास्त्रो ऽपि विसज्जनः । उत्तरत्य् एव संसारसागराद् राम पोतवत्
प्रज्ञावान् असहायो ऽपि कार्यान्तम् अधिगच्छति । दुष्प्रज्ञः कार्यम् आसाद्य प्रधानम् अपि नश्यति
शास्त्रसज्जनसंसर्गैः प्रज्ञां पूर्वं विवर्धयेत् । सेकसंरक्षणारम्भैः फलप्राप्त्यै लताम् इव
प्रज्ञाबलबृहन्मूलः काले सत्कार्यपादपः । फलं फलत्य् अतिस्वादु मासो बिम्बम् इवैन्दवम्
य एव यत्नः क्रियते बाह्यार्थोपार्जने नरैः । स एव यत्नः कर्तव्यः पूर्वं प्रज्ञाविवर्धने
सीमान्तं सर्वदुःखानाम् आपदां कोशम् उत्तमम् । बीजं संसारवृक्षाणां प्रज्ञामान्द्यं विवर्जयेत्
यत् स्वर्गाद् यच् च पातालाद् यद् राज्यात् समवाप्यते । तत् समासाद्यते सर्वं प्रज्ञाकोशान् महामते
प्रज्ञयोत्तीर्यते घोराद् अस्मात् संसारसागरात् । नाचारैर् न च वा तीर्थैस् तपसा च न राघव
यत् प्राप्तास् सम्पदं दैवीम् अपि भूमिचरा नराः । प्रज्ञापुष्पलतायास् तत् फलं स्वादु समुत्थितम्
प्रज्ञया नखरालूनवनवारणरक्तपाः । जम्बुकैर् विजितास् सिंहास् सिंहैर् हरिणका इव
पामरैर् अपि भूपत्वं प्राप्तं प्रज्ञावशान् नरैः । स्वर्गापवर्गयोग्यत्वं प्राज्ञस्यैवेह दृश्यते
प्रज्ञया वादिनस् सर्वे स्वविकल्पविलासिनः । जयन्ति सुगतप्रख्या रवान् अब्धिरवा इव
चिन्तामणिर् इयं प्रज्ञा हृत्कोशस्था विवेकिनः । फलं कल्पलतेवैषा चिन्तितं सम्प्रयच्छति
भव्यस् तरति संसारं प्रज्ञया प्रोह्यते ऽधमः । शिक्षितः पारम् आप्नोति नावा नश्यत्य् अशिक्षितः
धीस् सम्यग्योजिता पारम् असम्यग्योजितापदम् । नरं नयति संसारे वहन्ती नौर् इवार्णवे
विवेकिनम् असम्मूढं प्राज्ञम् आशागणोत्थिताः । दोषा न परिबाधन्ते सन्नद्धम् इव सायकाः
प्रज्ञयेदं जगत् सर्वं सम्यग् एवाङ्ग दृश्यते । सम्यग्दर्शिनम् आयान्ति नापदो न च सम्पदः
पिधानं परमार्कस्य जडात्मा विततो ऽसितः । अहङ्काराम्बुदो मत्तः प्रज्ञावातेन पाट्यते
पदम् अतुलम् उपैतुम् इच्छता स्वं प्रथमम् इयं मतिर् एव लालनीया । फलम् अभिपतता कृषीवलेन प्रथमतरं ननु कृष्यते धरैव
एवं जनकवद् राम विचार्यात्मानम् आत्मना । पदं विदितवेद्यानाम् अचिरेणाधिगच्छसि
ये हि पाश्चात्यजन्मानः प्राज्ञा राजसजातयः । प्राप्नुवन्ति स्वयं प्राप्यं ते जना जनको यथा
तावत् तावद् विजित्यारीन् इन्द्रियाख्यान् यतेत ह । यावद् आत्मात्मनैवायम् आत्मन्य् एव प्रसीदति
प्रसन्ने सर्वगे देवे देवेशे परमात्मनि । स्वयम् आलोकिते सर्वाः क्षीयन्ते दुःखदृष्टयः
मुष्टयो मोहबीजानां वृष्टयो विविधापदाम् । कुदृष्टयः क्षयं यान्ति तस्मिन् दृष्टे परावरे
सदा जनकवद् राम सर्वारम्भवतात्मना । प्रज्ञयात्मानम् आलक्ष्य लक्ष्मीवान् उत्तमो भव
नित्यम् आत्तविचारस्य पश्यतश् चञ्चलं जनम् । जनकस्येव कालेन स्वयम् आत्मा प्रसीदति
न दैवं न च कर्माणि न धनानि न बन्धवः । शरणं भवभीतानां स्वप्रयत्नाद् ऋते नृणाम्
ये दैवनिष्ठाः कर्मादिकुविकल्पपरायणाः । तेषां मन्दा मतिस् तात नानुगम्या विनाशिनी
विवेकं परम् आश्रित्य विलोक्यात्मानम् आत्मना । धिया विरागोद्धुरया संसारजलधिं तरेत्
एषा सा कथिता राम नभःफलनिपातवत् । सुखदा ज्ञानसम्प्राप्तिर् अज्ञानतरुशातनी