आस्थाम् अस्मात् परित्यज्य दृश्याद् दर्शनलालस । मैतद् गृहाण मा मुञ्च शुद्धया विहरेच्छया
इदं दृश्यम् असत् सद् वाप्य् उदेत्व् अस्तम् उपैतु वा । साधो विवशतां गच्छ मैतदीयैर् गुणागुणैः
मनाग् अपि न सम्बन्धस् तव दृश्येन वस्तुना । अविद्यमानरूपेण सम्बन्धः किल कीदृशः
असत् त्वम् एतच् च न सद् द्वयोर् एवासतोस् सतोः । सम्बन्ध इति चित्रेयम् अपूर्वैवाक्षरावली
असद् एतद् भवत् सच् चेत् तथापि किल सुन्दर । सङ्गस् सदसतोः कीदृग् वद त्वं मृतजीवतोः
चित्त त्वम् अथ दृश्यं च द्वे एव यदि सन्मये । सदा स्थिते तत् प्रसरः कुतो हर्षविषादयोः
तस्मान् मा भव मूढं त्वं मा समुल्लासम् आहर । अक्षुब्धां बुद्धिम् आतिष्ठ भव्य त्यज भवस्थितिम्
तिन्दुकालातवद् व्यर्थम् आत्मन्य् एव परिज्वलत् । मा मोहमलम् आसाद्य मन्दतां गच्छ दुर्मते
न तद् इहास्ति समुन्नतम् उत्तमं व्रजसि येन परां परिपूर्णताम् । तद् अवलम्ब्य बलाद् अतिधीरतां जहिहि चञ्चलतां शठ रे मनः
एवं विचारयंस् तत्र स्वराज्ये जनको नृपः । चकाराखिलकार्याणि न मुमोह च धीरधीः
न मनः प्रोल्ललासास्य क्वचिद् आनन्दवृत्तिषु । केवलं सुसमं स्वच्छं स सदैव व्यतिष्ठत
ततः प्रभृत्य् असौ दृश्यं नाजहार न चात्यजत् । केवलं विगताशङ्कं वर्तमाने व्यवस्थितः
अनारतविवेकेन तेन तन्मनसा ततः । पुनः कलङ्कं नैवात्तम् अम्बरेणेव राजसम्
स्वविवेकानुसन्धानाद् इति तस्य महीपतेः । सम्यग्ज्ञानम् अनन्ताभं मनो निर्मलतां ययौ
अनामृष्टविकल्पांशश् चिदात्मा विगतामयः । उदियाय हृदाकाशे तस्य व्योम्नीव भास्करः
स ददर्शाखिलान् भावांश् चित्तन्तौ मणिवत् ततान् । आत्मभूतान् अनन्तात्मा सर्वभूतात्मकोविदः
प्रहृष्टो न बभूवासौ कदाचिन् न च दुःखितः । प्रकृतव्यवहारित्वात् सदैव सममानसः
जीवन्मुक्तो बभूवासौ ततः प्रभृति मानद । जनको जरढज्ञानो ज्ञातलोकपरावरः
राज्यं कुर्वन् विदेहानां जनको जनजीवितम् । नैव हर्षविषादाभ्यां सो ऽवशः पर्यतप्यत
नास्तम् एति न चोदेति गुणदोषविवर्जितः । अर्थानर्थैस् स्वराज्योत्थैर् न ग्लायति न हृष्यति
कुर्वन्न् अपि करोत्य् एष न किञ्चिद् अपि कुत्रचित् । सन्तिष्ठत्य् एव सततं जीवन्मुक्तवपुर् यतः
सुषुप्तावस्थितस्येव जनकस्य महीपतेः । भावनास् सर्वभावेभ्यस् सर्वथैवास्तम् आगताः
भविष्यन् नानुसन्धत्ते नातीतं चिन्तयत्य् असौ । वर्तमानं निमेषं तु हसन्न् एवावतिष्ठते
स्वविचारवशेनैव तेन तामरसेक्षण । प्राप्तं प्राप्यम् अशेषेण राम नेतरयेच्छया
तावत् तावत् स्वकेनैव चेतसा प्रविचार्यते । यावद् यावद् विचाराणां सीमान्तस् समवाप्यते
न तद् गुरोर् न शास्त्रार्थान् न पुण्यात् प्राप्यते पदम् । यत् सत्प्रसङ्गाद् उदितविचारविशदाद् धृदः
स्निग्धया निजया ऋज्व्या प्रज्ञयैव वयस्यया । पदम् आसाद्यते राम न नाम क्रिययान्यया
यस्य ज्वलति तीक्ष्णाग्रा पूर्वापरविचारिणी । प्रज्ञादीपशिखा जातु तम् आन्ध्यं नानुधावति
दुरुत्तरा या विपदो दुःखकल्लोलसङ्कुलाः । तीर्यते प्रज्ञया ताभ्यो नावेवाद्भ्यो महामते
प्रज्ञाविरहितं मूढम् आपद् अल्पैव बाधते । पेलवैवानिलकला सारहीनम् इवोलपम्