तूष्णीम् अथ क्षणं स्थित्वा जनको जनजीवितम् । पुनस् सञ्चिन्तयाम् आस मनसा शमशालिना
किम् उपादेयम् अस्तीह यत्नात् संसाधयामि यत् । कस्मिन् वस्तुनि बध्नामि धृतिं नाशविवर्जिते
किं मे क्रियापरतया किं निष्क्रियतयापि वा । न तद् अस्ति विनाशेन वर्जितं यत् किलोदितम्
क्रियावान् अक्रियो वास्तु कायो ऽयम् असदुत्थितः । सतस् स्थिरस्य शुद्धस्य चितः का नाम मे क्षतिः
नाभिवाञ्छाम्य् असम्प्राप्तं सम्प्राप्तं न त्यजाम्य् अहम् । स्वस्थ आत्मनि तिष्ठामि यन् ममास्ति तद् अस्तु मे
न ममेह कृतेनार्थो नाकृतेनेह कश्चन । क्रिययाक्रियया वापि यत् प्राप्यं सद् असत् सतः
अकुर्वतः कुर्वतो वा युक्तायुक्ताः क्रिया मम । नाभिवाञ्छितम् अस्तीह यद् उपादेयतां गतम्
तद् उत्थाय क्रमप्राप्तां कायो ऽयं प्रकृतां क्रियाम् । करोत्व् अस्पन्दिताङ्गस् तु किम् अयं साधयिष्यति
स्थिते मनसि निष्कामे समे विगतरञ्जने । कायावयवजौ कार्यस्पन्दास्पन्दौ फले समौ
कर्मजासु फलश्रीषु मनसः कर्तृभोक्तृते । तस्मिन् प्रशमम् आयाते कृतम् अप्य् अकृतं नृणाम्
यो निश्चयो ऽन्तः पुरुषस्य रूढः क्रियास्व् असौ तन्मयताम् उपैति । अनामयं मे पदम् आगता धीर् अधीरताम् अन्तर् अलं त्यजामि
इति सञ्चिन्त्य जनको यथाप्राप्तां क्रियाम् असौ । असक्तः कर्तुम् उत्तस्थौ दिनं दिनपतिर् यथा
इष्टानिष्टाः परित्यज्य चेतसा वासनास् स्वयम् । यथाप्राप्तं चकारासौ जाग्रद् एव सुषुप्तवत्
सम्पाद्य तद् अहःकार्यम् आर्यावर्जनपूर्वकम् । अनयच् छर्वरीम् एकस् तथैव ध्यानलीलया
मनस् समरसं कृत्वा संशान्तविषयभ्रमम् । शर्वर्यां क्षीयमाणायाम् इत्थं चित्तम् अबोधयत्
चित्त चञ्चलविस्तार आत्मनो न सुखाय ते । शमम् एहि शमात् तात सुखं सारम् अवाप्य ते
यथा यथा विकल्पौघं सङ्कल्पयसि हेलया । तथा तथैति स्फारत्वं संसारस् तव चित्तक
शतशाखत्वम् आयाति सेकेन विटपी यथा । अनन्ताधित्वम् आयासि शठ भोगेच्छया तथा
चिन्ताजालविलासोत्था इमास् संसारसृष्टयः । तस्मात् त्यक्त्वा विचित्रां त्वं चिन्ताम् उपशमं व्रज
संसारसृष्टिं तरलाम् इमां तुलय सुन्दर । अस्याश् चेत् सारम् आप्नोषि तद् एनाम् एव संश्रय
आस्थाम् अस्मात् परित्यज्य दृश्याद् दर्शनलालस । मैतद् गृहाण मा मुञ्च शुद्धया विहरेच्छया
इदं दृश्यम् असत् सद् वाप्य् उदेत्व् अस्तम् उपैतु वा । साधो विवशतां गच्छ मैतदीयैर् गुणागुणैः
मनाग् अपि न सम्बन्धस् तव दृश्येन वस्तुना । अविद्यमानरूपेण सम्बन्धः किल कीदृशः
असत् त्वम् एतच् च न सद् द्वयोर् एवासतोस् सतोः । सम्बन्ध इति चित्रेयम् अपूर्वैवाक्षरावली
असद् एतद् भवत् सच् चेत् तथापि किल सुन्दर । सङ्गस् सदसतोः कीदृग् वद त्वं मृतजीवतोः
चित्त त्वम् अथ दृश्यं च द्वे एव यदि सन्मये । सदा स्थिते तत् प्रसरः कुतो हर्षविषादयोः
तस्मान् मा भव मूढं त्वं मा समुल्लासम् आहर । अक्षुब्धां बुद्धिम् आतिष्ठ भव्य त्यज भवस्थितिम्
तिन्दुकालातवद् व्यर्थम् आत्मन्य् एव परिज्वलत् । मा मोहमलम् आसाद्य मन्दतां गच्छ दुर्मते
न तद् इहास्ति समुन्नतम् उत्तमं व्रजसि येन परां परिपूर्णताम् । तद् अवलम्ब्य बलाद् अतिधीरतां जहिहि चञ्चलतां शठ रे मनः
एवं विचारयंस् तत्र स्वराज्ये जनको नृपः । चकाराखिलकार्याणि न मुमोह च धीरधीः