सहस्राङ्कुरशाखात्मफलपल्लवशालिनः । अस्य संसारवृक्षस्य मनोमूलमयो ऽङ्कुरः
सङ्कल्पम् एव तं मन्ये सङ्कल्पोपशमेन तत् । शोषयामि यथा शोषम् एति संसारपादपः
आकारमात्ररम्यासु मनोमर्कटवृत्तिषु । परिज्ञातास्व् इहाद्यैव न रमे नीरसास्व् अहम्
आशापाशशतप्रोताः पातोत्पातोपतापदाः । संसारवृत्तयो भुक्ता इदानीं विरमाम्य् अहम्
हा हतो ऽस्मि विनष्टो ऽस्मि मृतो ऽस्मीति पुनः पुनः । शोचिते गत एवाहम् इदानीं नानुरोदिमि
प्रबुद्धो ऽस्मि प्रहृष्टो ऽस्मि दृष्टश् चौरो मयात्मनः । मनोनामा निहन्म्य् एनं मनसास्मि चिरं हतः
एतावन्तम् इमं कालं मनोमुक्ताफलं मम । अविद्धम् आसीद् अधुना विद्धं तु गुणम् अर्हति
मनस्तुषारकणको विवेकार्कातपेन मे । चिरनिर्वृतये नूनम् अचिराल् लयम् एष्यति
विबुधैस् साधुभिस् सिद्धैर् अहं साधु प्रबोधितः । आत्मानम् अनुगच्छामि परमानन्दसाधनम्
आत्मानं मणिम् एकान्ते लब्ध्वैवालोकयन् सुखम् । तिष्ठाम्य् अस्तमितान्येहश् शरदीवामलो ऽम्बुदः
अयम् अहम् इदम् एव तन् ममेति स्फुरितम् अपास्य बलाद् असत्यम् अन्तः । रिपुम् अतिमलिनं मनो निहन्मि प्रशमम् उपैमि नमो ऽस्तु ते विवेक
इति चिन्तयतस् तस्य पुरस् सम्प्रविवेश ह । प्रतीहारः प्रगे भानोस् स्यन्दनाग्रम् इवारुणः
देव दोस्स्तम्भविश्रान्तसमस्तवसुधाभर । सम्पादयोत्तिष्ठ दिनव्यापारं नृपतोचितम्
एताः कुसुमकर्पूरकुङ्कुमाम्बुघटास् स्त्रियः । स्नानभूमौ स्थितास् सज्जा नद्यो मूर्तियुता इव
एषा कमलकल्हारकाननभ्रान्तषट्पदा । कृता कमलिनी स्त्र्यर्थं रचितांशुकमण्डपा
एताः कमलिनीतीरभुवश् छत्त्रैः प्रपूरिताः । सचामररथेभाश्वैस् स्नानावसरसेविनाम्
समग्रसुमनःपूर्णै रत्नौषधिपरिप्लुतैः । सज्जीकृताः पटलकैर् देवार्चनभुवस् तव
स्नातः पवित्रहस्तश् च परिजप्ताघमर्षणम् । त्वाम् एव प्रेक्षते देव दक्षिणार्हो द्विजव्रजः
चलच्चामरहस्ताभिः पाल्यन्ते परमेश्वर । सज्जीकृतास् तु कान्ताभिश् शीता भोजनभूमयः
शीघ्रम् उत्तिष्ठ भद्रं ते नियतं कार्यम् आचर । न कालम् अतिवर्तन्ते महान्तस् स्वेषु कर्मसु
प्रतीहारपताव् इत्थम् उक्तवत्य् अथ पार्थिवः । तथैव चिन्तयाम् आस चित्रां संसारसंस्थितिम्
कियन्मात्रम् इदं नाम राज्यं सुखम् इति स्थितम् । न प्रयोजनम् एतेन ममेह क्षणभङ्गिना
सर्वम् एव परित्यज्य मिथ्याडम्बरसम्भ्रमम् । एकान्त एव तिष्ठामि संशान्त इव वारिधिः
अलम् एभिर् असत्प्रायैर् मम भोगविजृम्भितैः । त्यक्त्वा सर्वाणि कर्माणि सुखं तिष्ठामि केवलः
चित्त चातुर्यम् एतस्माद् भोगाभ्यासकुसम्भ्रमात् । त्यज जन्मजराजाड्यजालजम्बालशान्तये
दशासु यासु यास्व् एव सम्भ्रमं चित्त पश्यसि । ताभ्य एवातिविरतं परमं सुखम् एष्यसि
प्रवृत्तं सन् निवृत्तं सद् भूयो भूयश् चिरं चिरम् । भोगभूमिषु सर्वासु चित्त तृप्तिं न गच्छसि
तस्मात् तवालम् अनया तुच्छया भोगचिन्तया । भवत्य् अकृत्रिमा तृप्तिर् येनाभिपत तत् ततम्
इति सञ्चिन्त्य जनकस् तूष्णीम् एव बभूव ह । शान्तचापलचेतस्त्वाल् लिपिकर्मार्पितोपमः
प्रतीहारो ऽपि नोवाच गौरवेण भयेन च । पुनर्वाक्यं महीपानां चित्तवृत्तिष्व् अशीलितम्