श्वश् श्वः पापीयसीम् एव श्वश् श्वः क्रूरतराम् अपि । श्वश् श्वः खेदकरीम् एति दशाम् इह जडो जनः
अज्ञानोपहतो बाल्ये यौवने मदनाहतः । शेषे कलत्रचिन्तार्तः किं करोतु कदा जडः
आगमापायविरसं दशावैषम्यदूषितम् । असारसारं संसारं किं न पश्यति मन्मतिः
राजसूयाश्वमेधाद्यैर् इष्ट्वा यज्ञशतैर् अपि । महाकल्पात् कम् अप्य् अंशं स्वर्गं आप्नोति नाधिकम्
को ऽसौ स्वर्गे ऽस्ति भूमौ वा पाताले वा प्रदेशकः । न यत्राभिद्रवन्त्य् एता दुर्भ्रमर्य इवापदः
निजचेतोबिलव्यालाश् शरीरस्थलपल्लवाः । आधयो व्याधयश् चैते निवार्यन्ते कथं किल
सत्ये ऽसत्ता स्थिता मूर्ध्नि मूर्ध्नि रम्येष्व् अरम्यता । सुखेषु मूर्ध्नि दुःखानि किम् एकं संश्रयाम्य् अहम्
जायन्ते च म्रियन्ते च प्राकृताः क्षुद्रजन्तवः । धरा तैर् एव नीरन्ध्रा दुर्लभास् साधुसाधवः
नीलोत्पलालिनयनाः परमप्रेमभूषणाः । हासायैव विलासिन्यः क्षणभङ्गितया स्थिताः
येषां निमेषणोन्मेषैर् जगतां प्रलयोदयौ । तादृशाः पुरुषा याता मादृशां गणनैव का
सन्ति रम्यतराद् रम्यास् सुस्थिराद् अपि च स्थिराः । चिन्तापर्यवसानेयं पदार्थश्रीः किम् ईदृशी
सम्पदश् च विचित्रा यास् ताश् चेच् चित्तेन सम्मताः । तत् ता अपि महारम्भा मन्ये नूनं महापदः
आपदो ऽपि विचित्रा यास् ताश् चेन् मनसि सम्मताः । तत् ता अपि महारम्भा मन्ये सकलसम्पदः
मनोमात्रविवर्ते ऽस्मिञ् जगत्य् अब्बिन्दुभङ्गुरे । ममेदम् इत्य् अपूर्वैव कुतस् त्व् अक्षरमालिका
काकतालीययोगेन सम्पन्नायां जगत्स्थितौ । धूर्तेन कल्पिता व्यर्थं हेयोपादेयभावनाः
इयत्ताच्छिन्नरूपासु सुखनाम्नीषु दृष्टिषु । कास्व् एतास्व् अनुषक्तो ऽस्मि पतङ्गो ऽग्निशिखास्व् इव
वरम् एकान्तदाहेषु लुठितं रौरवाग्निषु । न त्व् आलूनविशीर्णासु स्थितिस् संसारवृत्तिषु
संसार एव दुःखानां सीमान्तः किल कथ्यते । तन्मध्यपतितेनेह सुखम् आसाद्यते कथम्
अकृत्रिममहादुःखे संसारे ये व्यवस्थिताः । त एते ऽन्यानि दुःखानि जानते मधुराण्य् अलम्
अहम् अप्य् आधिमान् कष्टं काष्ठलोष्टसमस्थितैः । अज्ञैर् एवागतस् साम्यम् अपरामृष्टवस्तुभिः
सहस्राङ्कुरशाखात्मफलपल्लवशालिनः । अस्य संसारवृक्षस्य मनोमूलमयो ऽङ्कुरः
सङ्कल्पम् एव तं मन्ये सङ्कल्पोपशमेन तत् । शोषयामि यथा शोषम् एति संसारपादपः
आकारमात्ररम्यासु मनोमर्कटवृत्तिषु । परिज्ञातास्व् इहाद्यैव न रमे नीरसास्व् अहम्
आशापाशशतप्रोताः पातोत्पातोपतापदाः । संसारवृत्तयो भुक्ता इदानीं विरमाम्य् अहम्
हा हतो ऽस्मि विनष्टो ऽस्मि मृतो ऽस्मीति पुनः पुनः । शोचिते गत एवाहम् इदानीं नानुरोदिमि
प्रबुद्धो ऽस्मि प्रहृष्टो ऽस्मि दृष्टश् चौरो मयात्मनः । मनोनामा निहन्म्य् एनं मनसास्मि चिरं हतः
एतावन्तम् इमं कालं मनोमुक्ताफलं मम । अविद्धम् आसीद् अधुना विद्धं तु गुणम् अर्हति
मनस्तुषारकणको विवेकार्कातपेन मे । चिरनिर्वृतये नूनम् अचिराल् लयम् एष्यति
विबुधैस् साधुभिस् सिद्धैर् अहं साधु प्रबोधितः । आत्मानम् अनुगच्छामि परमानन्दसाधनम्
आत्मानं मणिम् एकान्ते लब्ध्वैवालोकयन् सुखम् । तिष्ठाम्य् अस्तमितान्येहश् शरदीवामलो ऽम्बुदः