अद्य ये महतां मूर्ध्नि ते दिनैर् निपतन्त्य् अधः । हतचित्त महत्तायां कैषा विश्वस्तता तव
अरज्जुर् एव बद्धो ऽहम् अपङ्को ऽस्मि कलङ्कितः । पतितो ऽस्म्य् उपरिस्थो ऽपि हा ममात्मन् हता स्थितिः
कस्माद् अकस्मान् मोहो ऽयम् आगतो धीमतो ऽपि मे । असितः पिहितालोको भास्कराग्रम् इवाम्बुदः
क इमे मे महाभोगाः क इमे मम बन्धवः । बालो भूतभयेनेव शङ्के केनाहम् आकुलः
स्वयम् एव निबध्नामि जरामरणकारिणीम् । किम् इमाम् अहम् अर्थेषु धृतिम् उद्वेगभारिणीम्
यातु तिष्ठतु वा सम्पन् ममैनां प्रति को ग्रहः । बुद्बुदश्रीर् इवैषा हि मिथ्यैवेत्थम् उपस्थिता
ते महाविभवा भोगास् ते सन्तस् स्निग्धबान्धवाः । सर्वं स्मृतिपथं प्राप्तं वर्तमाने ऽपि का धृतिः
क्व धनानि महीपानां ब्रह्मणां क्व जगन्ति वा । प्राक्तनानि प्रयातानि केयं विश्वस्तता मम
गलितानीन्द्रलक्षाणि बुद्बुदानीव वारिणि । मां जीवितनिबद्धाशं विहसिष्यन्ति साधवः
कोटयो ब्रह्मणां याता गतास् सर्गपरम्पराः । प्रयाताः पांसुवद् भूपाः का धृतिर् मम जीविते
संसाररात्रिदुस्स्वप्ने शून्ये देहमये भ्रमे । आस्थां चेद् अनुबध्नामि तन् माम् अस्तु धिग् अस्थितिम्
अयं सो ऽहम् इति व्यर्थम् उत्थितासत्स्वरूपिणा । अहङ्कारपिशाचेन किम् अज्ञवद् अहं हतः
हृतं हृतम् इदं कस्माद् आयुर् आयतयानया । पश्यन्न् अपि न पश्यामि सूक्ष्मया काललेखया
पादपीठीकृतेशानाश् शार्ङ्गिक्रीडनकन्दुकाः । कालकापालिना ग्रस्ताः किम् आस्थे मयि वल्गसि
अजस्रम् उपयान्त्य् एते यान्ति चाद्यापि वासराः । अविनष्टैकसद्वस्तुर् दृष्टो नाद्यापि वासरः
सारसास् सरसीवैते सर्वस्मिञ् जनचेतसि । भोगा एव स्फुरन्त्य् अन्तर् नातुच्छपददृष्टयः
कष्टात् कष्टतरं प्राप्तो दुःखाद् दुःखतरं गतः । अद्यापि न विरक्तो ऽस्मि हा धिङ् माम् अधमाशयम्
येषु येषु दृढाबद्धा भावना दृढवस्तुषु । तानि तानि विनष्टानि दृष्टानि किम् इहोत्तमम्
यन् मध्ये यच् च पर्यन्ते यद् आपाते मनोरमम् । सर्वम् एवापवित्रं तद् विनाशामेध्यदूषितम्
येषु येषु पदार्थेषु धृतिं बध्नाति मानवः । तेषु तेष्व् एव तस्याशु दृष्टो दुःखोदयो भृशम्
श्वश् श्वः पापीयसीम् एव श्वश् श्वः क्रूरतराम् अपि । श्वश् श्वः खेदकरीम् एति दशाम् इह जडो जनः
अज्ञानोपहतो बाल्ये यौवने मदनाहतः । शेषे कलत्रचिन्तार्तः किं करोतु कदा जडः
आगमापायविरसं दशावैषम्यदूषितम् । असारसारं संसारं किं न पश्यति मन्मतिः
राजसूयाश्वमेधाद्यैर् इष्ट्वा यज्ञशतैर् अपि । महाकल्पात् कम् अप्य् अंशं स्वर्गं आप्नोति नाधिकम्
को ऽसौ स्वर्गे ऽस्ति भूमौ वा पाताले वा प्रदेशकः । न यत्राभिद्रवन्त्य् एता दुर्भ्रमर्य इवापदः
निजचेतोबिलव्यालाश् शरीरस्थलपल्लवाः । आधयो व्याधयश् चैते निवार्यन्ते कथं किल
सत्ये ऽसत्ता स्थिता मूर्ध्नि मूर्ध्नि रम्येष्व् अरम्यता । सुखेषु मूर्ध्नि दुःखानि किम् एकं संश्रयाम्य् अहम्
जायन्ते च म्रियन्ते च प्राकृताः क्षुद्रजन्तवः । धरा तैर् एव नीरन्ध्रा दुर्लभास् साधुसाधवः
नीलोत्पलालिनयनाः परमप्रेमभूषणाः । हासायैव विलासिन्यः क्षणभङ्गितया स्थिताः
येषां निमेषणोन्मेषैर् जगतां प्रलयोदयौ । तादृशाः पुरुषा याता मादृशां गणनैव का