द्विजकैरवशीतांशुर् द्विषत्तिमिरभास्करः । सौजन्यरत्नजलधिर् भुवं विष्णुर् इवास्थितः
प्रफुल्तबाललतिके मञ्जरीपुञ्जपिञ्जरे । स कदाचिन् मधौ मत्तकोकिलोल्लासलासिनि
ययौ कुसुमिताभोगं सविलासलताङ्गनम् । लीलयोपवनं कान्तं नन्दनं वासवो यथा
तस्मिन् वरवने हृद्ये केसरामोदिमारुते । दूरस्थानुचरश् चारुकुञ्जेषु विचचार ह
अथ शुश्राव कस्मिंश्चित् तमालवनगुल्मके । सिद्धानाम् अप्रदृश्यानां स्वप्रसङ्गाद् उदाहृताः
विरक्तमनसां नित्यं शैलकन्दरचारिणाम् । इमाः कमलपत्त्राक्ष गीता गीतात्मभावनाः
द्रष्टृदृश्यसमायोगात् प्रत्ययानन्दनिश्चयः । यस् तं स्वम् आत्मतत्त्वोत्थं निष्ष्यन्दं समुपास्महे
द्रष्टृदर्शनदृश्यानि त्यक्त्वा वासनया सह । दर्शनप्रथमाभासम् आत्मानं समुपास्महे
निर्भासनं निर्मननम् आभासमननोपमम् । अभावभावनाभोगं सदात्मानम् उपास्महे
द्वयोर् मध्यगतं नित्यम् अस्ति नास्तीति पक्षयोः । प्रकाशनं प्रकाशानाम् आत्मानं समुपास्महे
अशिरस्कहकाराभम् अशेषाकारसंस्थितम् । अजस्रम् उच्चरन्तं तं स्वम् आत्मानम् उपास्महे
सन्त्यज्य हृद्गुहेशानं देवम् अन्यं प्रयान्ति ये । ते रत्नम् अभिवाञ्छन्ति त्यक्तहस्तस्थकौस्तुभाः
सर्वाशाः किल सन्त्यज्य फलम् एतद् अवाप्यते । येनाशाविषवल्लीनां मूलमाला विलूयते
बुद्ध्वाप्य् अत्यन्तवैरस्यं यः पदार्थेषु दुर्मतिः । बध्नाति भावनां भूयो नरो नासौ स गर्दभः
उत्थितानुत्थितान् एतान् इन्द्रियाहीन् पुनः पुनः । हन्याद् विवेकवज्रेण वज्रेणेव हरिर् गिरीन्
उपशमसुखम् आवहेत् पवित्रं शमवशतश् शमम् एति साधुचेतः । प्रशमितमनसस् स्वके स्वरूपे भवति सुखे स्थितिर् उत्तमा चिराय
इति सिद्धगणोद्गीता गीताश् श्रुत्वा महीपतिः । विषादम् आजगामाशु भीरू रणरवाद् इव
जगाम परिवारं स्वम् आकर्षन् स्वगृहं प्रति । स्वतीरवृक्षानुसृतः प्रावृडोघ इवार्णवम्
परिवारम् अशेषेण विसर्ज्यात्र स्वम् आलयम् । एक एवारुरोहाग्र्यं गृहम् अर्क इवाचलम्
ततः प्रोड्डयनालोलखगपक्षतिचञ्चलाः । आलोकयंल् लोकगतीर् विललापेदम् आतुरः
हा कष्टम् अतिकष्टासु लोकलोलदशास्व् अयम् । पाषाणेष्व् इव पाषाण आलुठामि बलाद् अलम्
अपर्यन्तस्य कालस्य को ऽप्य् अंशो जीव्यते मया । तस्मिन् भावं निबध्नामि धिङ् माम् अधमचेतसम्
कियन्मात्रम् इदं नाम राज्यम् आजीवितं मम । किम् एतेन विना दुःखं तिष्ठामि हतधीर् यथा
आदाव् अन्ते ऽप्य् अनन्तो ऽहं मध्ये पेलवजीवितः । बालश् चित्रेन्दुनेवाहं किं मुधा धृतिमान् स्थितः
प्रपञ्चरचितेनायम् इन्द्रजालेन जालिना । हा कष्टम् अभिमुह्यामि केनास्मि परिमोहितः
यद् वस्तु यच् च वा रम्यं यद् उदारम् अकृत्रिमम् । किञ्चित् तद् इह नास्त्य् एव किंनिष्ठेयं धृतिर् मम
दूरस्थम् अप्य् अदूरस्थं यन् मे मनसि वर्तते । इति निर्णीय बाह्ये ऽर्थे भावनां सन्त्यजाम्य् अहम्
लोकाजवञ्जवीभावस् सलिलावर्तभङ्गुरः । दृष्टो ऽद्यापि हि दुःखाय केयम् आस्था सुखं प्रति
प्रत्यब्दं प्रतिमासं च प्रत्यहं च प्रतिक्षणम् । सुखानि दुःखविद्धानि दुःखानि तु पुनः पुनः
पुनः पुनः परामृष्टं दृष्टं पृष्टं निभालितम् । अतुच्छं न तद् अस्तीह सतां यत्रास्तु संस्थितिः