अनुत्तमानन्दपदप्रधानविश्रान्तिरिक्तं हि मनो महात्मन् । कदर्थयन्तीह भृशं विकल्पाश् श्वानो वने देहम् इवाल्पजीवम्
प्रोच्चवृक्षचलत्पत्त्रलम्बाम्बुकणभङ्गुरे । आयुषीशानशीतांशुकलामृदुनि देहके
केदारविरटद्भेककण्ठत्वक्कोणभङ्गुरे । वागुरावलये जन्तोस् सुहृत्स्वजनसङ्गमे
वासनावातवलितकदाशातडिति स्फुटे । मोहौघमिहिकामेघे घनं स्फूर्जति गर्जति
नृत्यत्य् उत्ताण्डवं चण्डे लोले लोभकलापिनि । सुविकासिनि सस्फोटम् अनर्थकुटजद्रुमे
क्रूरे कृतान्तमार्जारे सर्वभूताखुहारिणि । अश्रुतस्पन्दसञ्चारे कुतो ऽप्य् उपरिपातिनि
क उपायो गतिः का वा का चिन्ता कस् समाश्रयः । केनेयम् अशुभोदर्का न भवेज् जीविताटवी
न तद् अस्ति पृथिव्यां वा दिवि देवेषु वा क्वचित् । सुधियस् तुच्छम् अप्य् एतद् यन् न याति नरम्यताम्
अयं हि दग्धसंसारो नीरन्ध्रकलनाकुलः । कथं सुस्वादुताम् एति नीरसो मूर्खतां विना
आशाप्रतिविषा केन क्षीरस्नानेन रम्यताम् । उपैति पुष्पशुभ्रेण मधुनेव सुवल्लरी
अपमृष्टमलोदेति क्षालनेनामृतद्युतिः । मनश्चन्द्रमसः केन तेन कामकलङ्किनः
दृष्टसंसारगतिना दृष्टादृष्टविनाशिना । केन वा व्यवहर्तव्यं संसारवनवीथिषु
रागद्वेषमहारोगा भोगपूर्वातिपूतयः । कथं जन्तोर् न बाधन्ते संसारारण्यचारिणः
कथं च वीरवैराग्नौ पततापि न दह्यते । पावके पारतेनेव रसेन रसशालिना
यस्मात् किल जगत्य् अस्मिन् व्यवहारक्रियां विना । न स्थितिस् सम्भवत्य् अब्धौ पतितस्याजला यथा
रागद्वेषविनिर्मुक्ता सुखदुःखविवर्जिता । कृशानोर् दाहहीनेव शिखा नास्तीह सत्क्रिया
मनोमननमानिन्यास् सतापाभुवनत्रये । क्षयो युक्तिं विना नास्ति ब्रूत ताम् अलम् उत्तमाः
व्यवहारवतो युक्त्या दुःखं नायाति मे यया । अथ वाव्यवहारस्य ब्रूत तां गतिम् उत्तमाम्
तत् कथं केन वा किं वा कृतम् उत्तमचेतसा । पूर्वं येनैति विश्रामं परमं पावनं मनः
यथा जानासि भगवंस् तथा मोहनिवृत्तये । ब्रूहि मे साधवो येन यूयं निर्दुःखतां गताः
अथ वा तादृशी ब्रह्मन् युक्तिर् यदि न विद्यते । न वक्ति मम वा कश्चिद् विद्यमानाम् अपि स्फुटम्
स्वयं चैव न चाप्नोमि तां विश्रान्तिम् अनुत्तमाम् । तद् अहं त्यक्तसर्वेहो निरहङ्कारतां गतः
न भोक्ष्ये न पिबाम्य् अम्बु नाहं परिदधे ऽम्बरम् । करोमि नाहं व्यापारं स्नानदानाशनादिकम्
न च तिष्ठामि कार्येषु सम्पत्स्व् आपद्दशासु च । न किञ्चिद् अभिवाञ्छामि देहत्यागाद् ऋते मुने
केवलं विगताशङ्को निर्ममो गतमत्सरः । मौनम् एवेह तिष्ठामि लिपिकर्मस्व् इवार्पितः
अथ क्रमेण सन्त्यज्य सश्वासोच्छ्वाससंविदम् । सन्निवेशं त्यजामीमम् अनर्थं देहनामकम्
नाहम् अस्य न मे देहश् शाम्याम्य् अस्नेहदीपवत् । सर्वम् एव परित्यज्य त्यजामीदं कलेवरम्
इत्य् उक्तवान् अमलशीतकराभिरामो रामो महत्तरविवेकविकासिचेताः । तूष्णीं बभूव पुरतो महतां घनानां केकारवश्रमवशाद् इव नीलकण्ठः
वदत्य् एवं मनोमोहविनिवृत्तिकरं वचः । रामे राजीवपत्त्राक्षे तस्मिन् राजकुमारके
सर्वे बभूवुस् तत्रस्था विस्मयोत्फुल्ललोचनाः । धृताम्बरा देहरुहैर् गिरश् श्रोतुम् इवोद्गतैः