जातो ऽसौ वृद्धिम् अभ्येति पार्वणश् चन्द्रमा इव । कुटजं प्रावृषीवैनं सौभाग्यम् अनुगच्छति
यस्येदं जन्म पाश्चात्यं तम् आश्व् एव महामते । विशन्ति विद्या विमला मुक्ता वेणुम् इवोत्तमम्
आर्यता हृद्यता मैत्री सोम्यता मुक्तता ज्ञता । समाश्रयन्ति तं नित्यम् अन्तःपुरम् इवाङ्गनाः
यः कुर्वन् सर्वकार्याणि पुष्टे नष्टे ऽथ तत्फले । समस् स सर्वकालेषु न तुष्यति न शोचति
तमांसीव दिवा यान्ति तत्र द्वन्द्वानि सङ्क्षयम् । शरदीव घनास् तत्र गुणा गच्छन्ति शुद्धताम्
पेशलाचारमधुरं सर्वे वाञ्छन्ति तं जनाः । वेणुं मधुरनिस्स्वानं वने मृगगणा इव
नरं पाश्चात्यजन्मानम् एवम्प्राया गुणश्रियः । जातम् एवानुधावन्ति बलाका इव वारिदम्
ततो ऽसौ गुणसम्पूर्णो गुरुम् एवानुगच्छति । स तम् एकं विवेकेन नियोजयति पावनम्
विचारवैराग्यवता चेतसा गुणशालिना । देवं पश्यत्य् अथात्मानम् एकरूपम् अनामयम्
अतो राम विचारेण चारुणा शान्तचेतसा । प्रबोधनीयं प्रथमं मनो मननमन्थरम्
ये हि पाश्चात्यजन्मानस् ते हि सुप्तं मनोमृगम् । प्रबोधयन्ति प्रथमं गुणगीतैर् महागुणाः
प्रथितगुणान् सुगुरून् निषेव्य यत्नाद् अमलधिया प्रविचार्य चित्तरत्नम् । गतिम् अमलाम् उपयाति मानवो ऽस्मिञ् जगति विलोक्य चिरं प्रकाशम् अन्तः
एष तावत् क्रमः प्रोक्तस् सामान्यस् सर्वजन्तुषु । इमम् अन्यं विशेषं त्वं शृणु राजीवलोचन
अस्मिन् संसारसंरम्भे जातानां देहधारिणाम् । अपवर्गगतौ राम द्वाव् इमाव् उत्तमौ क्रमौ
एकस् तावद् गुरुप्रोक्ताद् अनुष्ठानाच् छनैश् शनैः । जन्मना जन्मभिर् वापि सिद्धिदस् समुदाहृतः
द्वितीयस् त्व् आत्मनैवाशु किञ्चिद्व्युत्पन्नचेतसः । भवति ज्ञानसम्प्राप्तिर् आकाशफलपातवत्
नभःफलनिपाताभज्ञानसम्प्रतिपत्तये । अत्रेमं शृणु वृत्तान्तं प्राक्तनं कथयामि ते
शृणु सुभग कथं महानुभावा व्यपगतपूर्वशुभाशुभार्गडौघाः । खपतितफलवत् परं विवेकं चरमभवा विमलं समाप्नुवन्ति
अस्त्य् अस्तमितसर्वापद् उद्यत्सम्पद् उदारधीः । विदेहानां महीपालो जनको नाम वीर्यवान्
कल्पवृक्षो ऽर्थिसार्थानां मित्राब्जानां दिवाकरः । माधवो बन्धुपुष्पाणां स्त्रीणां मकरकेतनः
द्विजकैरवशीतांशुर् द्विषत्तिमिरभास्करः । सौजन्यरत्नजलधिर् भुवं विष्णुर् इवास्थितः
प्रफुल्तबाललतिके मञ्जरीपुञ्जपिञ्जरे । स कदाचिन् मधौ मत्तकोकिलोल्लासलासिनि
ययौ कुसुमिताभोगं सविलासलताङ्गनम् । लीलयोपवनं कान्तं नन्दनं वासवो यथा
तस्मिन् वरवने हृद्ये केसरामोदिमारुते । दूरस्थानुचरश् चारुकुञ्जेषु विचचार ह
अथ शुश्राव कस्मिंश्चित् तमालवनगुल्मके । सिद्धानाम् अप्रदृश्यानां स्वप्रसङ्गाद् उदाहृताः
विरक्तमनसां नित्यं शैलकन्दरचारिणाम् । इमाः कमलपत्त्राक्ष गीता गीतात्मभावनाः
द्रष्टृदृश्यसमायोगात् प्रत्ययानन्दनिश्चयः । यस् तं स्वम् आत्मतत्त्वोत्थं निष्ष्यन्दं समुपास्महे
द्रष्टृदर्शनदृश्यानि त्यक्त्वा वासनया सह । दर्शनप्रथमाभासम् आत्मानं समुपास्महे
निर्भासनं निर्मननम् आभासमननोपमम् । अभावभावनाभोगं सदात्मानम् उपास्महे
द्वयोर् मध्यगतं नित्यम् अस्ति नास्तीति पक्षयोः । प्रकाशनं प्रकाशानाम् आत्मानं समुपास्महे