नित्यम् उत्तमबोधाय भोगशय्यागतं मनः । बोधयेद् भवभेदाय भवो ह्य् अत्यन्तदुःखदः
यथा रजोभिर् गगनं यथा कमलम् अम्बुभिः । न लिप्यते ऽपि संश्लिष्टैर् देहैर् आत्मा तथैव वः
कर्दमादि यथा हेम्नश् श्लिष्टम् एव पृथक् स्थितम् । नान्तः परिणतिं याति जडो देहस् तथात्मनः
सुखदुःखानुभावित्वम् आत्मनीत्य् अवबुध्यते । असत्यम् एव गगने द्वीन्दुताम्लानते यथा
सुखदुःखे हि देहस्य सर्वातीतस्य नात्मनः । एते ह्य् अज्ञानकस्यैव तस्मिन् नष्टे न कस्यचित्
न कस्यचित् सुखं किञ्चिद् दुःखं च न च कस्यचित् । सर्वम् आत्ममयं शान्तम् अनन्तं पश्य राघव
इमा याः परिदृश्यन्ते विततास् सृष्टिदृष्टयः । पयसीव तरङ्गास् ताः पिञ्छा व्योम्नीव वात्मनि
यथा मणिर् ददात्य् आत्मच्छायास् स्वयम् अकारणम् । तेजोमयीस् तथैवायम् आत्मा सृष्टीः प्रयच्छति
आत्मा जगच् च सुमते नैकं न द्वे न चाप्य् असत् । आभासमात्रम् एवेदम् इत्थं सम्प्रति जृम्भते
समस्तं खल्व् इदं ब्रह्म सर्वम् आत्मेदम् आततम् । अहम् अन्यद् इदं चान्यद् इति भ्रान्तिं त्यजानघ
तते ब्रह्मघने नित्ये सम्भवन्ति न कल्पनाः । विच्छित्तयः पयोराशौ यथा राम जलेतराः
एकस्मिन्न् एव सर्वस्मिन् परमात्मनि विस्तृते । द्वितीया कल्पना नास्ति वह्नौ हिमकणो यथा
भावयन्न् आत्मनात्मानं चिद्रूपेणैव चिन्मयम् । जगज्जालम् अयं ह्य् आत्मा स्वयम् आत्मनि जृम्भते
न शोको ऽस्ति न मोहो ऽस्ति न जन्मास्ति न जन्मवान् । यद् अस्तीह तद् एवास्ति विज्वरो भव राघव
समस् स्वस्थस् स्थिरमतिश् शान्तश् शान्तमना मुनिः । मौनी वरमणिस्वच्छो विज्वरो भव राघव
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् । अद्वितीयो विशोकात्मा विज्वरो भव राघव
विविक्तश् शान्तसङ्कल्पो धीरधीर् ऊर्जिताशयः । यथाप्राप्तानुवर्ती च विज्वरो भव राघव
वीतरागो निरायासो विमना वीतकल्मषः । नादाता न परित्यागी विज्वरो भव राघव
विश्वातीतं पदं प्राप्तः प्राप्तप्राप्तव्यपूरितः । पूर्णार्णववद् अक्षुब्धो विज्वरो भव राघव
विकल्पजालनिर्मुक्तो मायाञ्जनविवर्जितः । आत्मनात्मनि तृप्तात्मा विज्वरो भव राघव
अनन्तापारपर्यन्तवपुर् आत्मविदां वरः । धराधरशिरोधीरो विज्वरो भव राघव
आत्मन्य् एवात्मनौदार्यं भज पूर्ण इवार्णवः । आत्मन्य् एवात्मनाह्लादं भज पूर्णेन्दुबिम्बवत्
विश्वप्रपञ्चरचनेयम् असत्यरूपा नासत्यरूपम् अनुधावति नाम तज्ज्ञः । तज्ज्ञो ऽसि शान्तकलनो ऽसि निरामयो ऽसि नित्योदितो ऽसि भव सुन्दर शान्तशोकः
एकातपत्रम् अवनौ गुरुणोपदिष्टः सम्यक् प्रपालय चिरं समयेह दृष्ट्या । राज्यं समस्तगुणरञ्जितराजलोकस् त्यागो न युक्त इह कर्मसु नापि रागः
इमम् एवं परिस्पन्दं करोमीत्य् अस्तवासनम् । प्रवर्तते यः कार्येषु स मुक्त इति मे मतिः
पौरुषीं तनुम् आश्रित्य केचिद् एते क्रियारताः । स्वर्गान् नरकम् आयान्ति स्वर्गं च नरकात् पुनः
केचित् कुकर्मनिरता विरतास् स्वविवेकतः । नरकान् नरकं यान्ति दुःखाद् दुःखं भयाद् भयम्
केचित् स्ववासनातन्तुबद्धाः कर्मावलोडिताः । तिर्यक्त्वात् स्थावरतनुं यान्ति तिर्यक्तनुं ततः
केचिद् आत्मविदो धन्या विचारितमनोदृशः । विच्छिन्नतृष्णानिगडा यान्ति निष्केवलं पदम्
पुरा कतिपयान्य् एव भुक्त्वा जन्मानि राघव । अस्मिञ् जन्मनि यो मुक्तस् स स्याद् राजससात्त्विकः