सकलशाश्वतशास्त्रविशारद प्रसृतपुण्यजलैकमहाह्रद । भज भृशं विततव्रत सम्प्रति प्रसृततां हतकिल्बिष मां प्रति
इदम् उत्तमसिद्धान्तसुन्दरं सुन्दराकृते । उपशान्तिप्रकरणं शृणुष्वावहितो हितम्
दीर्घसंसारमायेयं राम राजसतामसैः । धार्यते पुरुषैर् नित्यं सुस्तम्भैर् इव मण्डपः
सत्त्वस्थजातिभिर् वीरैस् त्वादृशैर् गुणबृंहितैः । हेलया त्यज्यते पक्वा मायेयं त्वग् इवोरगैः
ये सत्त्वजातयः प्राज्ञास् तथा राजससात्त्विकाः । विचारयन्ति ते साधो जगत् पूर्वापरं परम्
शास्त्रसज्जनसत्कारसङ्गेनापगतैनसाम् । सारावलोकिनी बुद्धिर् जायते दीपिकोपमा
स्वयम् एव विचारेण विचार्यात्मानम् आत्मना । यावन् नाधिगतं ज्ञेयं न तावद् अधिगम्यते
प्रज्ञावतां नयवतां धीराणां कुलशालिनाम् । जात्या राजससत्त्वानां मुख्यस् त्वं कुलनन्दन
स्वयम् आलोकय प्राज्ञ संसारारम्भदृष्टिषु । किं सत्यं किम् असत्यं वा भव सत्यपरायणः
आदाव् अन्ते च यन् नास्ति कीदृशी तस्य सत्यता । आदाव् अन्ते च यन् नित्यं तत् सत्यं राम नेतरत्
आद्यन्तासन्मये यस्य वस्तुन्य् आरज्यते मनः । तस्य मुग्धपशोर् जन्तोर् विवेकः केन जन्यते
जायते मन एवेह मन एवेह वर्धते । सम्यग्दर्शनदृष्ट्या तु मन एव विलीयते
ज्ञातम् एतन् मया ब्रह्मन् यथास्मिन् भुवनत्रये । मन एव हि संसारि जरामरणभाजनम्
यस् तस्योत्तरणोपायस् तं मे ब्रूहि विनिश्चितम् । हार्दं तमस् त्वयार्केण राघवाणां विनाश्यते
पूर्वं राघव शास्त्रेण वैराग्येण वरेण च । तथा सज्जनसङ्गेन नीयते पुण्यतां मनः
सौजन्यबृंहितं चेतो यदा वैराग्यम् आगतम् । तदानुगम्या गुरवो विज्ञानगुरवो हि ये
ततस् तदुपदिष्टेन कृत्वा ध्यानार्चनादिकम् । क्रमेण पदम् आप्नोति तद् यत् परमपावनम्
विचारेणावदातेन पश्यत्य् आत्मानम् आत्मना । इन्दुना शीतलेनान्तर् बिम्बं स्वम् इव तेजसा
तावद् भवमहाम्भोधौ जनस् तृणवद् उह्यते । विचारतटविश्रान्तिम् एति यावन् न चेतसा
विचारेण परिज्ञातवस्तुनो ऽस्य जनस्य धीः । सर्वान् अधः करोत्य् आधीन् सोम्याम्भ इव वालुकाः
इदं रुक्मम् इदं भस्म परिज्ञाते इति स्फुटम् । न यथा हेमकारस्य मोहो ज्ञातात्मनस् तथा
अक्षयो ऽयम् अनाशात्मा स्वात्मेत्य् अवगते चिरम् । भवतीति हि कस्येह मोहस्यावसरः कुतः
अपरिज्ञातसारे हि मणौ मूल्ये विमुह्यते । ज्ञातसारे त्व् असन्दिग्धमूल्ये क्व किल मूढता
हे जना अपरिज्ञात आत्मा वो दुःखसिद्धये । परिज्ञातस् त्व् अनन्ताय सुखायोपशमाय च
मिश्रीभूतम् इवानेन देहेनोपहतात्मना । व्यस्तीकृत्य स्वम् आत्मानं स्वस्था भवत माचिरम्
देहेनास्य न सम्बन्धो मनाग् एवामलात्मनः । हेम्नः पङ्कलवेनेव तद्गतस्यापि मानवाः
पृथग् आत्मा पृथग् देहो जलपद्मदलोपमौ । ऊर्ध्वबाहुर् विरौम्य् एष न च कश्चिच् छृणोति मे
जडधर्मि मनो यावद् गर्तकच्छपवत् स्थितम् । भोगमन्दवपुर् मूढं विस्मृतात्मविचारणम्
तावत् संसारतिमिरं सेन्दुनापि सवह्निना । अर्कद्वादशकेनापि मनाग् अपि न भिद्यते
सम्प्रबुद्धे हि मनसि स्वां विवेचयति स्थितिम् । नैशम् अर्कोदय इव तमो हार्दं पलायते