संसार एव निवसञ् जनो व्यवहरन्न् अपि । न बन्धं कथम् आयाति पद्मपत्त्रे पयो यथा
आत्मवत् तृणवद् वेदं सकलं जनयञ् जगत् । कथम् उत्तमताम् एति मनोमन्मथम् अस्पृशन्
कं महापुरुषं पारम् उपयातं भवोदधेः । आचारेणानुसृत्यायं जनो याति न दुष्कृतम्
किं तद् यद् उचितं श्रेयः किं तत् स्याद् उचितं फलम् । वर्तितव्यं च संसारे कथं नामासमञ्जसे
तत् त्वं कथय मे किञ्चिद् येनास्य जगतः प्रभो । वेद्मि पूर्वापरां धातुश् चेष्टितस्यासमस्थितिम्
हृदयाकाशशशिनश् चेतसो मलमार्जनम् । यथा मे जायतां ब्रह्मंस् तथा निर्विघ्नम् आचर
किम् इह स्याद् उपादेयं किं वा हेयम् अथेतरत् । कथं विश्रान्तिम् आयातु चेतश् चपलम् अद्रिवत्
केन पावनमन्त्रेण दुस्संसृतिविषूचिका । शाम्यतीयम् अनायासम् आयासशतकारिणी
कथं शीतलताम् अन्तर् आनन्दतरुमञ्जरीम् । पूर्णचन्द्र इवाक्षीणां राकाम् आसादयाम्य् अहम्
प्राप्यान्तःपूर्णताम् अन्तर् न शोचामि यथा पुनः । सन्तो भवन्तस् तत्त्वज्ञास् तथैवोपदिशन्तु माम्
अनुत्तमानन्दपदप्रधानविश्रान्तिरिक्तं हि मनो महात्मन् । कदर्थयन्तीह भृशं विकल्पाश् श्वानो वने देहम् इवाल्पजीवम्
प्रोच्चवृक्षचलत्पत्त्रलम्बाम्बुकणभङ्गुरे । आयुषीशानशीतांशुकलामृदुनि देहके
केदारविरटद्भेककण्ठत्वक्कोणभङ्गुरे । वागुरावलये जन्तोस् सुहृत्स्वजनसङ्गमे
वासनावातवलितकदाशातडिति स्फुटे । मोहौघमिहिकामेघे घनं स्फूर्जति गर्जति
नृत्यत्य् उत्ताण्डवं चण्डे लोले लोभकलापिनि । सुविकासिनि सस्फोटम् अनर्थकुटजद्रुमे
क्रूरे कृतान्तमार्जारे सर्वभूताखुहारिणि । अश्रुतस्पन्दसञ्चारे कुतो ऽप्य् उपरिपातिनि
क उपायो गतिः का वा का चिन्ता कस् समाश्रयः । केनेयम् अशुभोदर्का न भवेज् जीविताटवी
न तद् अस्ति पृथिव्यां वा दिवि देवेषु वा क्वचित् । सुधियस् तुच्छम् अप्य् एतद् यन् न याति नरम्यताम्
अयं हि दग्धसंसारो नीरन्ध्रकलनाकुलः । कथं सुस्वादुताम् एति नीरसो मूर्खतां विना
आशाप्रतिविषा केन क्षीरस्नानेन रम्यताम् । उपैति पुष्पशुभ्रेण मधुनेव सुवल्लरी
अपमृष्टमलोदेति क्षालनेनामृतद्युतिः । मनश्चन्द्रमसः केन तेन कामकलङ्किनः
दृष्टसंसारगतिना दृष्टादृष्टविनाशिना । केन वा व्यवहर्तव्यं संसारवनवीथिषु
रागद्वेषमहारोगा भोगपूर्वातिपूतयः । कथं जन्तोर् न बाधन्ते संसारारण्यचारिणः
कथं च वीरवैराग्नौ पततापि न दह्यते । पावके पारतेनेव रसेन रसशालिना
यस्मात् किल जगत्य् अस्मिन् व्यवहारक्रियां विना । न स्थितिस् सम्भवत्य् अब्धौ पतितस्याजला यथा
रागद्वेषविनिर्मुक्ता सुखदुःखविवर्जिता । कृशानोर् दाहहीनेव शिखा नास्तीह सत्क्रिया
मनोमननमानिन्यास् सतापाभुवनत्रये । क्षयो युक्तिं विना नास्ति ब्रूत ताम् अलम् उत्तमाः
व्यवहारवतो युक्त्या दुःखं नायाति मे यया । अथ वाव्यवहारस्य ब्रूत तां गतिम् उत्तमाम्
तत् कथं केन वा किं वा कृतम् उत्तमचेतसा । पूर्वं येनैति विश्रामं परमं पावनं मनः
यथा जानासि भगवंस् तथा मोहनिवृत्तये । ब्रूहि मे साधवो येन यूयं निर्दुःखतां गताः