ह्यस् त्वयोक्तो य आनन्दी विविक्तो वचसां गणः । अमृतावर्षणेनेव तेनेहाश्वासिता वयम्
चन्द्रांशव इवोत्सार्य तमांस्य् अमृतनिर्मिताः । अन्तश् शीतलयन्त्य् एता महताम् अमला गिरः
अपूर्वाह्लाददायिन्य उच्चैस्तरपदाश्रयाः । अतिमोहापहारिण्यस् सूक्तयो ऽमृतवृष्टयः
आत्मरत्नावलोकैकदीपिका पारमार्थिकी । यस्माद् उक्तिलतोदेति स वन्द्यस् सज्जनद्रुमः
दुरीहितं दुर्विहितं सर्वं सज्जनसूक्तयः । प्रमार्जयन्ति शीतांशोस् तमस्काण्डम् इवांशवः
तृष्णालोभादयो ऽस्माकं संसारनिगडा मुने । तवोक्त्या तनुतां याताश् शरदीवासिताम्बुदाः
सम्प्रवृत्ता वयं द्रष्टुम् आत्मानम् अपकल्मषम् । रसाञ्जनानीतदृशो जात्यन्धा इव काञ्चनम्
संसारवासनानाम्नी मिहिका हृदयाम्बरे । प्रवृत्ता तनुतां गन्तुं त्वदुक्तिशरदेह नः
मुने मन्दारमञ्जर्यस् तरङ्गा वामृताम्भसः । न तथाह्लादयन्त्य् अन्तर् यथोदारधियां गिरः
यद् यद् राघव संयाति महाजनसपर्यया । दिनं तद् इह सालोकं शेषास् त्व् अन्धा दिनालयः
राम राजीवपत्त्राक्ष प्रकृतार्थदिदृक्षया । मुनिम् आबोधय पुनः प्रसादे समवस्थितम्
इत्य् उक्ते भूभृता तत्र रामाभिमुखम् आस्थितः । उवाचेदम् उदारात्मा वसिष्ठो भगवान् मुनिः
राघव स्वकुलैकेन्दो तं मयोक्तं महामते । कच्चित् स्मरसि वाक्यार्थं पूर्वापरविचारितम्
उत्पत्तीनां विचित्राणां सत्त्वादिगुणभेदतः । कच्चित् स्मरसि सर्वासां विभागम् अरिमर्दन
कच्चित् सर्वम् असर्वं च सद् असच् च सदोदितम् । रूपं स्मरसि देवस्य विमलं परमात्मनः
यथेदम् उदितं विश्वं विश्वेशाद् ईश्वरेश्वरात् । कच्चित् स्मरसि तत् साधो साधुवादैकभाजन
रूपं कच्चिद् अविद्यायाः फल्गुभङ्गुरम् आततम् । अनन्तम् अन्तवच् चैव सम्यक् स्मरसि सन्मते
चित्तम् एव नरो नान्यद् इति यत् प्रतिपादितम् । लवणादिविचारेण कच्चित् स्मरसि साधु तत्
वाक्यार्थश् चाखिलः कच्चित् त्वया राम विचारितः । ह्यस्तनस्य विचारस्य रात्रौ हृदि निवेशितः
भूयो भूयः परामृष्टं हृदये सुनियोजितम् । प्रयोजनं फलत्य् उच्चैर् न हेलाहतसंस्थिति
भाजनं त्वं विविक्तानां वचसां शुद्धिशालिनाम् । विविक्तहृदयो वेणुर् मुक्तानाम् इव मानद
कमलासनपुत्रेण मुनिना सुमहौजसा । एवंवितीर्णावसरो रामो वाक्यम् उवाच ह
भगवन् सर्वधर्मज्ञ तवैवैतद् विजृम्भितम् । यद् अहं परमोदारं बुद्धवान् वचनं तव
यद् आदिशसि तत् सर्वं तथैव न तद् अन्यथा । अपास्तनिद्रेण मया वाक्यार्थो निशि चिन्तितः
भवान्धकारक्षतये भवतोर्वीविवस्वता । ह्यः प्रसारितम् आह्लादि वाग्रश्मिपटलं प्रभो
तद् अदीनम् अदीनात्मन् सर्वम् अन्तःकृतं मया । रम्यं पुण्यं विचित्रं च रत्नवृन्दम् इवाब्धिना
हितानुबन्धि हृद्यं च पुण्यम् आनन्दसाधनम् । शिरसा ध्रियते कैर् नो सिद्ध्यै त्वदनुशासनम्
प्रक्षीयमाणसंसारनीहारावरणा वयम् । प्रसन्नास् त्वत्प्रसादेन वर्षान्त इव वासराः
आपातमधुरारम्भं मध्ये सौभाग्यवर्धनम् । अनुत्तमफलोदर्कं पुण्यं त्वदनुशासनम्
विकासि सितम् अम्लानम् आह्लादि मुदिताशयम् । त्वद्वचःकुसुमं नित्यं श्रीमत्फलदम् अस्तु नः