तस्यैवम्प्रायया तत्र ततयोदारचिन्तया । सा व्यतीयाय रजनी पद्मस्येवार्ककाङ्क्षिणः
किञ्चित् तमःकडारासु किञ्चिद् अप्य् अरुणासु च । ततो विरलतारासु दिक्षु रामसितास्व् इव
प्रभाततूर्यघोषेण समम् इन्दुसमाननः । उत्तस्थौ राघवश् श्रीमान् पद्मः पद्माकराद् इव
प्रातस्तनं विधिं सर्वं सम्पाद्य भ्रातृसंयुतः । प्रमितात्मपरीवारो वसिष्ठसदनं ययौ
समाधिसंस्थम् एकान्ते मुनिम् आत्मपरायणम् । दूराद् एव ननामासौ रामो विनतकन्धरः
तं प्रणम्याङ्गने तस्थुस् तस्मिंस् ते विनयान्विताः । यावत् तमस् समालूनं ध्वस्तं दिङ्मुखमण्डलात्
राजानो राजपुत्राश् च ऋषयो ब्राह्मणास् तथा । आययुस् सदनं मौनं ब्रह्मलोकम् इवामराः
तद् वसिष्ठस्य सदनं बभूव जनसङ्कुलम् । हस्त्यश्वरथसम्बाधं पार्थिवागारशोभनम्
क्षणाद् वसिष्ठो भगवान् विरराम समाधितः । आचारेणोपपन्नेन जग्राह प्रणतं जनम्
अथानुयातो मुनिभिर् विश्वामित्रान्वितो मुनिः । आरुरोह रथं श्रीमान् सहसाब्जम् इवाब्जजः
ययौ गृहं दाशरथं सैन्येन महता वृतः । ब्रह्मेव शक्रनगरं समस्तसुरमालितः
विवेश विततां तत्र रम्यां दाशरथीं सभाम् । हंसयूथानुवलितो राजहंस इवाब्जिनीम्
त्रीणि तस्य पदान्य् आशु तदा दशरथो नृपः । निर्जगाम महावीर्यस् सिंहासनसमुत्थितः
विविशुस् तत्र ते सर्वे नृपा दशरथादयः । वसिष्ठाद्याश् च मुनय ऋषयो ब्राह्मणास् तथा
मन्त्रिणश् च सुमन्त्राद्या धौम्याद्याश् च विपश्चितः । राजपुत्राश् च रामाद्या मन्त्रिपुत्रास् सुहादयः
सामन्ताद्याः प्रकृतयस् सुहोत्राद्याश् च नागराः । मालवाद्यास् तथा भृत्याः पौराद्याश् चैव लालकाः
स्वोचितेषु प्रदेशेषु स्वोचितेष्व् आसनेषु च । सर्वेष्व् एवोपविष्टेषु वसिष्ठोन्मुखदृष्टिषु
सभाकलकले शान्ते मौनसंस्थेषु वन्दिषु । पृष्टासु स्थितिवार्त्तासु सोम्ये तस्मिन् सभान्तरे
सिन्दूरधूलिपुञ्जाभे बाले दिनकरातपे । वितानतलविश्रान्ते कचत्य् आदर्शमण्डले
स्फुरत्य् अञ्चलमालासु विशत्य् अम्भोजकोटरं । पद्मरागेष्व् अपिहिते मुक्तादामसु चञ्चले
बृहत्कुसुमदोलाभ्यः प्रसृताभ्यस् समन्ततः । वाति मांसलम् आमोदम् आदाय मधुरानिले
वातायनेषु मृदुषु कुसुमाकीर्णभूमिषु । पर्यङ्केषूपविष्टासु पश्यन्तीषु पुरन्ध्रिषु
जालागतार्ककरलोलविलोचनासु रत्नप्रभाप्रकरपिङ्गलचामरासु । सन्त्यक्तचापललवं चपलाबलासु मौनस्थितासु सितचामरधारिणीषु
मुक्ताफलप्रतिफलत्प्रतिमार्करश्मिशारोदरास्व् अजिरभूमिषु चण्पकौघम् । नास्वादयत्य् अभिनवातपबिन्दुबुद्ध्या भ्रान्त्या भ्रमिण्य् अलिबले नभसीव मेघे
पुण्यो वसिष्ठवचनप्रसरश् श्रुतो यस् तं शंसति प्रसृतविस्मयम् आर्यलोके । संसद्गते मृदुपदाक्षरमुग्धवाक्यम् अन्योऽन्यम् उत्स्मितम् अनल्पगुणाभिरामम्
दिग्भ्यः पुराच् च गगनाच् च नृपर्षिसिद्धविद्याधरार्यमुनिविप्रगणे विशिष्टे । मौनप्रणामम् अभितः प्रविशत्य् अशब्दं सोपांशु गौरववता सह जातवाक्ये
उन्निद्रकोकनदकोमलकोशकृष्टमत्तालिजालमकरन्दसुवर्णरागैः । आपिङ्गले मरुति वाति विलोलघण्टाटाङ्कारगीतवति पीतनिशाम्बुशीते
अगुरुतगरधूमे चन्दनामोदमिश्रे सरसकुसुमदामोद्दामगन्धाङ्किताभ्रे । सरति सितवितानाम्भोरुहावर्तलेशैश् चलकुसुमरजोऽङ्कैश् शब्दविज्ञातभृङ्गम्
मेघगम्भीरया वाचा विस्रब्धपदसुन्दरम् । इदं दशरथो वाक्यम् उवाच मुनिनायकम्
भगवन् ह्यस्तनेन त्वं वाक्यसन्दर्भजन्मना । कच्चिन् मुक्तो ऽसि खेदेन तपःकार्श्यातिशायिना