कदेन्द्रियाणि दुःखेभ्यस् सन्तरिष्यथ हेलया । दुरीहादग्धदेहानि गरुत्मन्त इवाब्धितः
अयं सो ऽहम् इदं तन् मे इति व्यक्तोत्थितो भ्रमः । शरदीवासितो मेघः कदा न उपशाम्यति
मन्दारवनलेखासु या रतिस् सा तृणायते । यत्र तत् पदम् आत्मीयं सम्प्राप्स्यामः कदा वयम्
वीतरागजनप्रोक्ता निर्मला ज्ञानदृष्टयः । कच्चित् पदं त्वयि मनः करिष्यन्तीति मे वद
हा तात मातः पुत्रेति गिरां मा स्याम् अहं पुनः । भाजनं चित्त मद्बन्धो भोजनं दुःखभोगिनाम्
हे बुद्धे भगिनि भ्रातुर् अर्थितां पूरयाशु मे । आवयोर् दुःखमोक्षाय विचारय मुनेर् गिरः
आपद् आपतति प्रीत्या भवे सति सुतेव ते । तेन भव्ये भवच्छेदभूतये सुस्थिरा भव
वसिष्ठमुनिना प्रोक्ता विरक्ताः प्रथमं गिरः । ततो मुमुक्षोर् आचार उत्पत्तीनां क्रमस् ततः
ततस् स्थितिप्रकरणं नानादृष्टान्तसुन्दरम् । विज्ञानगर्भं सकलं यथावत् स्मर हे मते
कृतम् अपि शतशो विचारितं यद् यदि तद् उपैति न मानवस्य बुद्धिः । भवति तद् अफलं शरद्घनाभं सततम् अतो मतिर् एव कार्यसारः
तस्यैवम्प्रायया तत्र ततयोदारचिन्तया । सा व्यतीयाय रजनी पद्मस्येवार्ककाङ्क्षिणः
किञ्चित् तमःकडारासु किञ्चिद् अप्य् अरुणासु च । ततो विरलतारासु दिक्षु रामसितास्व् इव
प्रभाततूर्यघोषेण समम् इन्दुसमाननः । उत्तस्थौ राघवश् श्रीमान् पद्मः पद्माकराद् इव
प्रातस्तनं विधिं सर्वं सम्पाद्य भ्रातृसंयुतः । प्रमितात्मपरीवारो वसिष्ठसदनं ययौ
समाधिसंस्थम् एकान्ते मुनिम् आत्मपरायणम् । दूराद् एव ननामासौ रामो विनतकन्धरः
तं प्रणम्याङ्गने तस्थुस् तस्मिंस् ते विनयान्विताः । यावत् तमस् समालूनं ध्वस्तं दिङ्मुखमण्डलात्
राजानो राजपुत्राश् च ऋषयो ब्राह्मणास् तथा । आययुस् सदनं मौनं ब्रह्मलोकम् इवामराः
तद् वसिष्ठस्य सदनं बभूव जनसङ्कुलम् । हस्त्यश्वरथसम्बाधं पार्थिवागारशोभनम्
क्षणाद् वसिष्ठो भगवान् विरराम समाधितः । आचारेणोपपन्नेन जग्राह प्रणतं जनम्
अथानुयातो मुनिभिर् विश्वामित्रान्वितो मुनिः । आरुरोह रथं श्रीमान् सहसाब्जम् इवाब्जजः
ययौ गृहं दाशरथं सैन्येन महता वृतः । ब्रह्मेव शक्रनगरं समस्तसुरमालितः
विवेश विततां तत्र रम्यां दाशरथीं सभाम् । हंसयूथानुवलितो राजहंस इवाब्जिनीम्
त्रीणि तस्य पदान्य् आशु तदा दशरथो नृपः । निर्जगाम महावीर्यस् सिंहासनसमुत्थितः
विविशुस् तत्र ते सर्वे नृपा दशरथादयः । वसिष्ठाद्याश् च मुनय ऋषयो ब्राह्मणास् तथा
मन्त्रिणश् च सुमन्त्राद्या धौम्याद्याश् च विपश्चितः । राजपुत्राश् च रामाद्या मन्त्रिपुत्रास् सुहादयः
सामन्ताद्याः प्रकृतयस् सुहोत्राद्याश् च नागराः । मालवाद्यास् तथा भृत्याः पौराद्याश् चैव लालकाः
स्वोचितेषु प्रदेशेषु स्वोचितेष्व् आसनेषु च । सर्वेष्व् एवोपविष्टेषु वसिष्ठोन्मुखदृष्टिषु
सभाकलकले शान्ते मौनसंस्थेषु वन्दिषु । पृष्टासु स्थितिवार्त्तासु सोम्ये तस्मिन् सभान्तरे
सिन्दूरधूलिपुञ्जाभे बाले दिनकरातपे । वितानतलविश्रान्ते कचत्य् आदर्शमण्डले
स्फुरत्य् अञ्चलमालासु विशत्य् अम्भोजकोटरं । पद्मरागेष्व् अपिहिते मुक्तादामसु चञ्चले