शनैर् आस्तीर्णपुष्पेषु कीर्णकर्पूरमुष्टिषु । दीर्घेन्दुबिम्बरम्येषु तस्थुस् तल्पेषु राघवाः
अथ रामाद् ऋते ऽन्येषां तत्र तद्व्यवहारिणी । व्यतीयाय शनैश् श्यामा मुहूर्त इव सुन्दरी
तस्थौ रामस् तु ताम् एव वासिष्ठीं वचनावलीम् । चिन्तयन् मधुरोदारां प्राक्पीतां करभो यथा
किम् इदं नाम संसारभ्रमणं किम् इमे जनाः । भूतानीह विचित्राणि किम् आयान्ति प्रयान्ति किम्
मनसः कीदृशं रूपं कथं चैतत् प्रसृज्यते । मायेयं सा किमुत्था स्यात् कथं चेयं निवर्तते
निवृत्तया च वा कस् स्याद् गुणो दोषो ऽथ वा भवेत् । कथम् आत्मनि चैवायं तते सङ्कोच आगतः
किम् उक्तं स्याद् भगवता मुनिना मनसः क्षये । किम् इन्द्रियजये प्रोक्तं किम् उक्तम् अथ चात्मनि
जीवश् चित्तं मनो मायेत्येवमादिभिर् आततैः । रूपैर् आत्मैव संसारं तनोतीमम् असन्मयैः
एभिर् एव मनोमात्रतन्तुबद्धैः क्षयं गतैः । दुःखोपशान्तिर् एतानि सुचिकित्स्यानि नः कथम्
भोगाभ्रमालावलनाद् धीबलाकाम् इमां कथम् । पृथक् करोमि पयसो धारां हंस इवाम्भसः
भोगास् त्यक्तुं न शक्यन्ते तत्त्यागेन विना धियः । प्रभवामो न विपदाम् अहो सङ्कटम् आगतम्
मनोमात्रजयप्राप्यं तन्व् एवेदं प्रयोजनम् । सम्पन्नं मे गिरिगुरु मौर्ख्याद् यक्षश् शिशोर् इव
कदा स्वशान्तिम् आगत्य गतसंसारसम्भ्रमा । बालेव लब्धदयिता सुखम् आप्स्यति नो मतिः
कदोपशान्तसंरम्भं विगताशेषकौतुकम् । अपारपदविश्रान्तं मम स्यात् पावनं मनः
कलाकलापसम्पूर्णाच् छशाङ्काद् अपि शीतले । पदे सुरूद्ःअं विश्रम्य हसिष्यामि कदा जगत्
कलनापेलवं रूपम् उत्सृज्यालीनम् आत्मनि । कदैष्यति मनश् शान्तिं पयसीव तरङ्गकः
तृष्णातरङ्गाकुलितं मायामकरमालितम् । कदा संसारजलधिं तीर्त्वा स्याम् अहम् अज्वरः
कदोपशान्तशुद्धासु पदवीषु विचक्षणाः । मुमुक्षूणां निवत्स्यामो निश्शोकं समदर्शनाः
सन्तापितसमस्ताङ्गस् सर्वधातुभयङ्करः । संसृतिज्वर आदीर्घः कदा नश् चित्त शाम्यति
निवातदीपलेखेव कदोषित्वा गतभ्रमम् । शमम् एष्यसि हे बुद्धे स्वप्रकाशाद् अनन्तरम्
कदेन्द्रियाणि दुःखेभ्यस् सन्तरिष्यथ हेलया । दुरीहादग्धदेहानि गरुत्मन्त इवाब्धितः
अयं सो ऽहम् इदं तन् मे इति व्यक्तोत्थितो भ्रमः । शरदीवासितो मेघः कदा न उपशाम्यति
मन्दारवनलेखासु या रतिस् सा तृणायते । यत्र तत् पदम् आत्मीयं सम्प्राप्स्यामः कदा वयम्
वीतरागजनप्रोक्ता निर्मला ज्ञानदृष्टयः । कच्चित् पदं त्वयि मनः करिष्यन्तीति मे वद
हा तात मातः पुत्रेति गिरां मा स्याम् अहं पुनः । भाजनं चित्त मद्बन्धो भोजनं दुःखभोगिनाम्
हे बुद्धे भगिनि भ्रातुर् अर्थितां पूरयाशु मे । आवयोर् दुःखमोक्षाय विचारय मुनेर् गिरः
आपद् आपतति प्रीत्या भवे सति सुतेव ते । तेन भव्ये भवच्छेदभूतये सुस्थिरा भव
वसिष्ठमुनिना प्रोक्ता विरक्ताः प्रथमं गिरः । ततो मुमुक्षोर् आचार उत्पत्तीनां क्रमस् ततः
ततस् स्थितिप्रकरणं नानादृष्टान्तसुन्दरम् । विज्ञानगर्भं सकलं यथावत् स्मर हे मते
कृतम् अपि शतशो विचारितं यद् यदि तद् उपैति न मानवस्य बुद्धिः । भवति तद् अफलं शरद्घनाभं सततम् अतो मतिर् एव कार्यसारः