तयोर् उत्थितयोस् सर्वा सभोत्थातुम् अकम्पत । मन्दवातपरामृष्टा नलिनीवालिलोचना
उत्तस्थौ सावतंसोत्थभृङ्गमण्डलमण्डिता । करिसेनेव विन्ध्याद्राव् आलोलकरपुष्करा
परस्परांससङ्घट्टचूर्णिताङ्गदमण्डला । रत्नचूर्णारुणाम्भोदसन्ध्यासमयसूचिनी
पतदुत्तंसविभ्रान्तभृङ्गोपाहितघुङ्घुमा । मुकुटोद्दामविद्योतशक्रचापीकृताम्बरा
कान्तालताहस्तदलचलच्चामरमञ्जरी । वनलेखेव विक्षुब्धवरवारणमण्डला
कचत्कटकरत्नाश्रिकृष्टान्योऽन्यातताम्बरा । वातव्याधूतपुष्पेव मन्दारवनमालिका
कस्तूरीकणनीहाररचितामलवारिदा । शरद्दिक्तटमालेव प्रसृताशेषभूमिपा
लोलमौलिमणिव्रातपाटलाम्बरकोटरा । सन्ध्येवाकुललोलाब्जकार्यसंहारकारिणी
रत्नांशुसलिलापूरा मुखपद्मनिरन्तरा । पद्मिनीवालिवलिता नूपुरारावसारसा
सन्तता सा सभोत्तस्थौ भूभृच्छतसमाकुला । भूतसन्ततिसम्पूर्णा सृष्टिर् नवम् इवोदिता
प्रणम्याथ नृपं भूपा निर्ययुर् नृपमन्दिरात् । शक्रचापीकृता रत्नैर् अम्भोधेर् इव वीचयः
सामन्ता मन्त्रिणश् चैव वसिष्ठम् अथ भूमिपम् । प्रणम्य जग्मुस् स्नानाय नयविज्ञानकोविदाः
वामदेवादयश् चान्ये विश्वामित्रादयस् तथा । वसिष्ठं पुरतः कृत्वा तस्थुर् आमज्जनोन्मुखाः
राजा दशरथस् तत्र पूजयित्वा मुनिव्रजम् । तद्विसृष्टो जगामाथ स्वकार्यार्थम् अरिन्दमः
वनं वनास्पदा जग्मुर् व्योम व्योमनिवासिनः । नगरं नागराश् चैव प्रातर् आगमनाय ते
महीपतिवसिष्ठाभ्यां प्रणयात् प्रार्थितः प्रभुः । वसिष्ठसद्मनि निशां विश्वामित्रो ऽत्यवाहयत्
वसिष्ठस् सह विप्रेन्द्रैः पार्थिवैर् मुनिभिस् तथा । उपास्यमानो रामाद्यैस् सर्वैर् दशरथात्मजैः
जगाम स्वाश्रमं श्रीमान् सर्वलोकनमस्कृतः । अनुयातस् सुरौघेन ब्रह्मलोकम् इवाब्जजः
तस्मात् प्रदेशाद् रामादीन् मुनिर् दशरथात्मजान् । सर्वान् विसर्जयाम् आस पादोपान्ते नतान् असौ
नभश्चरान् अवनिचराञ् जलेचरान् विसर्ज्य स स्तुतगुणगोचरांश् चरान् । यथाक्रमं स्वगृह उदारसन्मुनौ चकार ता द्विजजनवासरक्रियाः
ते समेत्य गृहं वीरा राजपुत्राश् शशित्विषः । चक्रुस् सर्वम् अशेषेण स्वसद्मसु दिनक्रमम्
वसिष्ठो राघवश् चैव राजानो मुनयो द्विजाः । इति चक्रुस् स्वकार्याणि तदा स्वगृहवीथिषु
सस्नुः कमलकल्हारकुमुदोत्पलहारिषु । जलाशयेषु चक्राह्वहंससारसराविषु
गोभूतिलहिरण्यानि शयनान्य् आसनानि च । ददुर् दानानि विप्रेभ्यो भोजनान्य् अंशुकानि च
हेमरत्नविचित्रेषु स्वेषु चामरसद्मसु । आनर्चुर् अच्युतेशानहुताशार्कादिकान् सुरान्
पुत्रपौत्रसुहृद्भृत्यबन्धुमित्रगणैस् सह । तत आस्वादयाम् आसुर् भोजनान्य् उचितानि ते
एतस्मिन् समये चास्मिन् नगरे दिवसो ऽभवत् । तनुर् अष्टांशशेषत्वान् मृद्वातपमनोहरः
सायन्तनविधिं ते ते तत्कालोचितयेच्छया । अनयन् बन्धुभिस् सार्धं यावद् अस्तं ययौ रविः
सन्ध्यां ववन्दिरे सुष्ठु जेपुश् चैवाघमर्षणम् । पेठुस् स्तोत्राणि पुण्यानि जगुर् गाथा मनोरमाः
ततश् चाभ्युदिते श्यामाकामिनीशोकहारिणि । क्षीरोदाद् इव माहेन्द्र्यां चन्द्रे ऽवश्यायदायिनि