जर्जरीकृत्य वस्तूनि त्यजन्ती बिभ्रती तथा । मार्गशीर्षान्तवल्लीव धृतिर् विधुरतां गता
अपहस्तितसर्वार्थम् अनवस्थितिर् आस्थिता । गृहीत्वोत्सृज्य चात्मानम् अवस्थितिर् अवस्थिता
चलिताचलितेनान्तर् अवष्टम्भेन मे मतिः । दरिद्राच्छिन्नवृक्षस्य मूलेनेव विडम्ब्यते
चेतश् चञ्चलम् आभोगि भुवनान्तर्विहारि च । सम्भ्रमं न जहातीदं स्वविमानम् इवामरः
अतो ऽतुच्छम् अनायासम् अनुपाधि गतभ्रमम् । किं तत् स्थितिपदं साधु यत्र शङ्का न विद्यते
सर्वारम्भसमारम्भास् सुजना जनकादयः । व्यवहारपरा एव कथम् उत्तमतां गताः
लग्नेनापि किलाङ्गेषु बहुना बहुमानद । कथं संसारपङ्केन पुमान् इह न लिप्यते
कां दृष्टिं समुपाश्रित्य भवन्तो वीतकल्मषाः । महान्तो विचरन्तीह जीवन्मुक्ता महाशयाः
लोभयन्तो भयायैव विषया भोगभोगिनः । भङ्गुराकारविभवाः कथम् आयान्ति भव्यताम्
मोहमातङ्गमृदिता कलङ्ककलितान्तरा । परं प्रसादम् आयाति शेमुषीसरसी कथम्
संसार एव निवसञ् जनो व्यवहरन्न् अपि । न बन्धं कथम् आयाति पद्मपत्त्रे पयो यथा
आत्मवत् तृणवद् वेदं सकलं जनयञ् जगत् । कथम् उत्तमताम् एति मनोमन्मथम् अस्पृशन्
कं महापुरुषं पारम् उपयातं भवोदधेः । आचारेणानुसृत्यायं जनो याति न दुष्कृतम्
किं तद् यद् उचितं श्रेयः किं तत् स्याद् उचितं फलम् । वर्तितव्यं च संसारे कथं नामासमञ्जसे
तत् त्वं कथय मे किञ्चिद् येनास्य जगतः प्रभो । वेद्मि पूर्वापरां धातुश् चेष्टितस्यासमस्थितिम्
हृदयाकाशशशिनश् चेतसो मलमार्जनम् । यथा मे जायतां ब्रह्मंस् तथा निर्विघ्नम् आचर
किम् इह स्याद् उपादेयं किं वा हेयम् अथेतरत् । कथं विश्रान्तिम् आयातु चेतश् चपलम् अद्रिवत्
केन पावनमन्त्रेण दुस्संसृतिविषूचिका । शाम्यतीयम् अनायासम् आयासशतकारिणी
कथं शीतलताम् अन्तर् आनन्दतरुमञ्जरीम् । पूर्णचन्द्र इवाक्षीणां राकाम् आसादयाम्य् अहम्
प्राप्यान्तःपूर्णताम् अन्तर् न शोचामि यथा पुनः । सन्तो भवन्तस् तत्त्वज्ञास् तथैवोपदिशन्तु माम्
अनुत्तमानन्दपदप्रधानविश्रान्तिरिक्तं हि मनो महात्मन् । कदर्थयन्तीह भृशं विकल्पाश् श्वानो वने देहम् इवाल्पजीवम्
प्रोच्चवृक्षचलत्पत्त्रलम्बाम्बुकणभङ्गुरे । आयुषीशानशीतांशुकलामृदुनि देहके
केदारविरटद्भेककण्ठत्वक्कोणभङ्गुरे । वागुरावलये जन्तोस् सुहृत्स्वजनसङ्गमे
वासनावातवलितकदाशातडिति स्फुटे । मोहौघमिहिकामेघे घनं स्फूर्जति गर्जति
नृत्यत्य् उत्ताण्डवं चण्डे लोले लोभकलापिनि । सुविकासिनि सस्फोटम् अनर्थकुटजद्रुमे
क्रूरे कृतान्तमार्जारे सर्वभूताखुहारिणि । अश्रुतस्पन्दसञ्चारे कुतो ऽप्य् उपरिपातिनि
क उपायो गतिः का वा का चिन्ता कस् समाश्रयः । केनेयम् अशुभोदर्का न भवेज् जीविताटवी
न तद् अस्ति पृथिव्यां वा दिवि देवेषु वा क्वचित् । सुधियस् तुच्छम् अप्य् एतद् यन् न याति नरम्यताम्
अयं हि दग्धसंसारो नीरन्ध्रकलनाकुलः । कथं सुस्वादुताम् एति नीरसो मूर्खतां विना
आशाप्रतिविषा केन क्षीरस्नानेन रम्यताम् । उपैति पुष्पशुभ्रेण मधुनेव सुवल्लरी