सुमन्त्रे मित्रतां याते मनसीन्द्वंशुशीतले । विकासिहृदये जाते तत्काल इव पङ्कजे
तत्रस्थेषु तथान्येषु तदा मुनिषु राजसु । आधौतचित्तरत्नेषु प्रोच्छ्वसत्स्व् इव चेतसा
उदभूत् पूरयन्न् आशाः कल्पाभ्ररवमांसलः । अथ मध्याह्नशङ्खानाम् अब्धिघोषसमस् स्वनः
महता तेन शब्देन तिरोधानं मुनेर् गिरः । ययुर् जलदनादेन कोकिलध्वनयो यथा
मुनिर् अन्तरयां चक्रे स्वां वाचम् अथ संसदि । जितसारो गुणः केन महता समुदीर्यते
मुहूर्तमात्रम् अथ तं श्रुत्वा मध्याह्ननिस्स्वनम् । घने कोलाहले शान्ते रामं मुनिर् उवाच ह
रामाद्यतनम् एतावद् आह्निकं कथितं मया । प्रातर् अन्यत् प्रवक्ष्यामि वक्तव्यम् अरिमर्दन
इदं नियतितः प्राप्तं कर्तव्यं यद् द्विजन्मनाम् । मध्याह्नसवनं तन् नः कार्यम् आर्यावसीदति
त्वम् अप्य् उत्तिष्ठ सुभग समस्तां सवनक्रियाम् । आचराचारचतुर स्नानदानार्चनादिकाम्
इत्य् उक्त्वा मुनिर् उत्तस्थौ समं दशरथेन सः । संसदस् सेन्दुर् आदित्य उदयाद्रितटाद् इव
तयोर् उत्थितयोस् सर्वा सभोत्थातुम् अकम्पत । मन्दवातपरामृष्टा नलिनीवालिलोचना
उत्तस्थौ सावतंसोत्थभृङ्गमण्डलमण्डिता । करिसेनेव विन्ध्याद्राव् आलोलकरपुष्करा
परस्परांससङ्घट्टचूर्णिताङ्गदमण्डला । रत्नचूर्णारुणाम्भोदसन्ध्यासमयसूचिनी
पतदुत्तंसविभ्रान्तभृङ्गोपाहितघुङ्घुमा । मुकुटोद्दामविद्योतशक्रचापीकृताम्बरा
कान्तालताहस्तदलचलच्चामरमञ्जरी । वनलेखेव विक्षुब्धवरवारणमण्डला
कचत्कटकरत्नाश्रिकृष्टान्योऽन्यातताम्बरा । वातव्याधूतपुष्पेव मन्दारवनमालिका
कस्तूरीकणनीहाररचितामलवारिदा । शरद्दिक्तटमालेव प्रसृताशेषभूमिपा
लोलमौलिमणिव्रातपाटलाम्बरकोटरा । सन्ध्येवाकुललोलाब्जकार्यसंहारकारिणी
रत्नांशुसलिलापूरा मुखपद्मनिरन्तरा । पद्मिनीवालिवलिता नूपुरारावसारसा
सन्तता सा सभोत्तस्थौ भूभृच्छतसमाकुला । भूतसन्ततिसम्पूर्णा सृष्टिर् नवम् इवोदिता
प्रणम्याथ नृपं भूपा निर्ययुर् नृपमन्दिरात् । शक्रचापीकृता रत्नैर् अम्भोधेर् इव वीचयः
सामन्ता मन्त्रिणश् चैव वसिष्ठम् अथ भूमिपम् । प्रणम्य जग्मुस् स्नानाय नयविज्ञानकोविदाः
वामदेवादयश् चान्ये विश्वामित्रादयस् तथा । वसिष्ठं पुरतः कृत्वा तस्थुर् आमज्जनोन्मुखाः
राजा दशरथस् तत्र पूजयित्वा मुनिव्रजम् । तद्विसृष्टो जगामाथ स्वकार्यार्थम् अरिन्दमः
वनं वनास्पदा जग्मुर् व्योम व्योमनिवासिनः । नगरं नागराश् चैव प्रातर् आगमनाय ते
महीपतिवसिष्ठाभ्यां प्रणयात् प्रार्थितः प्रभुः । वसिष्ठसद्मनि निशां विश्वामित्रो ऽत्यवाहयत्
वसिष्ठस् सह विप्रेन्द्रैः पार्थिवैर् मुनिभिस् तथा । उपास्यमानो रामाद्यैस् सर्वैर् दशरथात्मजैः
जगाम स्वाश्रमं श्रीमान् सर्वलोकनमस्कृतः । अनुयातस् सुरौघेन ब्रह्मलोकम् इवाब्जजः
तस्मात् प्रदेशाद् रामादीन् मुनिर् दशरथात्मजान् । सर्वान् विसर्जयाम् आस पादोपान्ते नतान् असौ
नभश्चरान् अवनिचराञ् जलेचरान् विसर्ज्य स स्तुतगुणगोचरांश् चरान् । यथाक्रमं स्वगृह उदारसन्मुनौ चकार ता द्विजजनवासरक्रियाः