प्राक्तना अखिला भावा जातिकर्मवशानुगाः । पौरुषेणावजीयन्ते धीरैर् धीरा इवारयः
प्राक्तनाशुभजातिस्थकर्मदोषाकुलाम् अपि । धैर्येणाभ्युद्धरेद् बुद्धिं पङ्कान् मुग्धमृगीम् इव
तामसीं राजसीं चैव जातिम् अन्याम् अपि श्रिताः । स्वविवेकवशाद् यान्ति सन्तस् सात्त्विकजातिताम्
अन्तश् चित्तमणौ स्वच्छे यद् राघव नियोज्यते । तन्मयो हि भवत्य् एष तस्माज् जयति पौरुषम्
पौरुषेण प्रयत्नेन महार्हगुणशालिना । मुमुक्षवो भवन्तीह पाश्चात्यशुभजातयः
न तद् अस्ति पृथिव्यां वा दिवि देवेषु वा क्वचित् । पौरुषेण प्रयत्नेन यन् नाप्नोति गुणान्वितः
त्वम् अजर्येण धैर्येण वरवैराग्यरंहसा । युक्तः प्रज्ञाप्ररूढेन किं नाप्नोषि तदीहितम्
हितं महासत्त्वतयात्मनस् त्वं विधाय बुद्ध्या भव वीतशोकः । भवत्क्रमेणैव ततो जनो ऽयम् उर्व्यां भविष्यत्य् अतिवीतशोकः
पाश्चात्यजन्मनि विवेकमहामहिम्ना युक्ते त्वयि प्रसृतसत्त्वगुणाभिरामे । सत्त्वस्थकर्मणि पदं ननु राम रामे मैषा करोतु भवबन्धविमोहचिन्ता
अथ स्थितिप्रकरणाद् अनन्तरम् इदं शृणु । उपशान्तिप्रकरणं ज्ञातं निर्वाणकारि यत्
शरत्तारकिताकाशस्तिमितायां सुसंसदि । कथयत्य् एवम् आह्लादि वसिष्ठे पावनं वचः
श्रवणार्थं च मौनस्थपार्थिवे संसदन्तरे । निवात इव निस्स्पन्दकमले कमलाकरे
विलासिनीषु संशान्तमदमोहबलासु च । शमम् अन्तः प्रयान्तीषु चिरप्रव्राजितास्व् इव
कराम्भोरुहहंसेषु लीनेषु श्रवणाद् इव । मूकघुर्घुरघण्टेषु चामरेषु लिपाव् इव
नासाग्रपरिविश्रान्ततर्जन्यङ्गुलिकोटिषु । विचारयत्सु विज्ञानकलां तज्ज्ञेषु राजसु
रामे विकासम् आयाते प्रभात इव पङ्कजे । परित्यक्ततमःपीठे सूर्योदय इवाम्बरे
आकर्णयति वासिष्ठीर् गिरो दशरथे रसात् । कलापिनीव जीमूतनिर्ह्रादम् उरुवर्षणम्
आहृत्य सर्वभोगेभ्यो मनो मर्कटचञ्चलम् । श्रवणं प्रति यत्नेन भरते मन्त्रिणि स्थिते
वसिष्ठोक्त्या परिज्ञाते स्वात्मनीन्दुकलामले । लक्ष्मणे विलसल्लक्ष्ये शिक्षाबलविलक्षणे
शत्रुघ्ने शत्रुदलने चेतसा पूर्णतां गते । अलम् आनन्दम् आयाते राकाचन्द्रोपमे स्थिते
सुमन्त्रे मित्रतां याते मनसीन्द्वंशुशीतले । विकासिहृदये जाते तत्काल इव पङ्कजे
तत्रस्थेषु तथान्येषु तदा मुनिषु राजसु । आधौतचित्तरत्नेषु प्रोच्छ्वसत्स्व् इव चेतसा
उदभूत् पूरयन्न् आशाः कल्पाभ्ररवमांसलः । अथ मध्याह्नशङ्खानाम् अब्धिघोषसमस् स्वनः
महता तेन शब्देन तिरोधानं मुनेर् गिरः । ययुर् जलदनादेन कोकिलध्वनयो यथा
मुनिर् अन्तरयां चक्रे स्वां वाचम् अथ संसदि । जितसारो गुणः केन महता समुदीर्यते
मुहूर्तमात्रम् अथ तं श्रुत्वा मध्याह्ननिस्स्वनम् । घने कोलाहले शान्ते रामं मुनिर् उवाच ह
रामाद्यतनम् एतावद् आह्निकं कथितं मया । प्रातर् अन्यत् प्रवक्ष्यामि वक्तव्यम् अरिमर्दन
इदं नियतितः प्राप्तं कर्तव्यं यद् द्विजन्मनाम् । मध्याह्नसवनं तन् नः कार्यम् आर्यावसीदति
त्वम् अप्य् उत्तिष्ठ सुभग समस्तां सवनक्रियाम् । आचराचारचतुर स्नानदानार्चनादिकाम्
इत्य् उक्त्वा मुनिर् उत्तस्थौ समं दशरथेन सः । संसदस् सेन्दुर् आदित्य उदयाद्रितटाद् इव