उच्चैःपदस्थस् तज्ज्ञेन सुमहाञ् शीतलाशयः । साधुर् एवानुगन्तव्यो मयूरेणाम्बुदो यथा
अहङ्कारस्य देहस्य संसारस्योद्भवस्य च । विचारम् अमलं कृत्वा सत्यम् एवाश्रयेन् नरः
शरीरम् अस्थिमांसं च त्यक्त्वा रक्ताद्य् अशोभनम् । भूतमुक्तावलीतन्तुं चिन्मात्रम् अवलोकयेत्
सत्ये नित्ये तते शुद्धे सर्वगे सर्वभावने । शिवे सर्वम् इदं प्रोतं सूत्रे मणिगणो यथा
यैव चिद् भुवनाभोगभूषणे व्योम्नि भास्करे । धराविवरकोशस्थे सैव चित् कीटकोदरे
कुम्भव्योम्नां न भेदो ऽस्ति यथेह परमार्थतः । चितां शरीरसंस्थानां न भेदो ऽस्ति तथानघ
सर्वेषाम् एव भूतानां तिक्तं कटु च नान्यथा । एकत्वाद् अनुभूतेर् हि कुतश् चिन्मात्रभिन्नता
एकस्मिन्न् एव सततं स्थिते चिन्मात्रवस्तुनि । जातो ऽयम् अयम् उन्नष्ट इति कैषाज्ञतेह वः
नेह तन् नाम वस्त्व् अस्ति यद् अभूत्वा प्रजायते । न च तन् नाम वस्त्व् अस्ति यद् भूत्वा प्रविलीयते
आभासमात्रम् एवेदं न सन् नासच् च राघव । उत्प्लुतेनाप्रशान्तेन चेतसा सद् इव स्थितम्
मेह मोहो ऽस्तु वो मौर्ख्यान् नेदं सद् यत् प्रणश्यति । न चासद् इत्य् एव दृढं निर्णीयाशोकितास्तु वः
असति जगति किं किलेह मोहस् सति च किम् अङ्ग विमोहकारणं तत् । जननमरणसंस्थितिष्व् अतस् त्वं भव खम् इवातिसमस् सदोपशान्तः
धीरो विचारवाञ् जन्तुर् आदाव् एव महाधिया । शास्त्रार्थविदुषा ज्ञेन सुजनेन समं वसेत्
या या दुःखविनाशिन्यो वरविज्ञानदृष्टयः । तास् ता मधाव् इव लता जायन्ते सुजने सति
सुजनेन विरक्तेन हृद्येन महता सह । प्रविचार्य महाबाहो पदम् आसाद्यते परम्
शास्त्रार्थसुजनासङ्गवैराग्याभ्याससत्कृतः । पुरुषस् त्वम् इवाभाति राम विज्ञानभाजनम्
त्वं तूदारनिजाचारो धीरो गुणगणार्णवः । अधितिष्ठसि निर्दुःखां जातिं राजससात्त्विकीम्
भूयो ऽस्मिन् दग्धसंसारे नासि दुःखस्य भाजनम् । पाश्चात्यजन्मासि मुने स्वभावम् अनुधावसि
स्वयैवामलया दृष्ट्या तव प्रकटतां गतम् । यथाभूतं जगद्वस्तु रुचा दिनपतेर् इव
इदानीं मद्वचोराशिवह्निदग्धमलो ऽमलः । नूनम् उत्सारिताभ्रेण शरद्व्योम्ना समो भव
भवभावनया मुक्तं युक्तम् उत्तमसंविदा । चित्तमुक्ताकलापं त्वम् अच्छाच्छं हृदये कुरु
ममेदम् इदम् अन्यस्येत्य् एवंकलनयोज्झितम् । मनो मुक्तविभागं ते मुक्तम् एव न संशयः
तवोत्तमानुभावस्य य इदानीं नरा भुवि । चेष्टाम् अनुसरिष्यन्ति ते ऽपि यास्यन्त्य् अशोकताम्
राघवव्यवहारेण विहरिष्यन्ति ये नराः । भवार्णवात् तरिष्यन्ति स्वमनःपोतकेन ते
भवत्तुल्यमतिर् यस् स्यात् सुजनस् समदर्शनः । योग्यो ऽसौ ज्ञानदृष्टीनां पूर्णेन्दुस् सुरुचाम् इव
त्वम् अशोकां दशां प्राप्तो यथाप्राप्तानुवृत्तिमान् । यावद्देहं धिया तिष्ठ रागद्वेषविहीनया
बहिर् लोकोचिताचारस् त्व् अन्तस् त्यक्ताखिलैषणः । परां शीतलताम् एत्य तिष्ठ पूर्णेन्दुबिम्बवत्
इतरासु तु ये जाता जातिष्व् अगुणशालिनः । अविचार्यास् त एते हि गोमायुशिशुधर्मकाः
ये स्वभावा महाबाहो नृणां सात्त्विकजन्मनाम् । तान् भजन् पुरुषो याति पाश्चात्योदारजन्मताम्
यान् एव सेवते जन्तुर् इह जातिगुणान् सदा । अप्य् अन्यजातिजातो ऽपि याति तज्जातितां क्षणात्