अथेत्थं योनिम् आसाद्य भुक्त्वा जन्मपरम्पराम् । मोक्षार्थं प्राप्तजन्मा चेत् तत् स राजससात्त्विकः
पाश्चात्यजन्मनः पुंसः क्रमं वक्ष्यामि ते ऽधुना । राम राजससत्त्वस्य मोक्षम् आयात्य् असौ यथा
प्राथम्येन य आयातस् संसारम् अतिसात्त्विकः । स कदाचित् क्वचित् कश्चित् सम्भवत्य् अनघाकृते
सम्भवन्तीह पुरुषा राम राजससात्त्विकाः । प्रविचार्यास् त एवातो गन्तव्यं चेह तद्दृशा
प्राथम्येन समायाता ये पदात् परमात्मनः । दुर्लभाः पुरुषा राम ते महागुणशालिनः
ये चान्ये विविधा मूका मूढास् तामसजातयः । तेषां स्थावरतुल्यानां किं तद् राम विचार्यते
कतिपयाधिगतात्मभवान्तरः प्रकृतजन्मनि लभ्यमहापदः । अयम् इह प्रविचारणयोग्यताम् अनुगतो ननु राजससात्त्विकः
ये हि राजससत्त्वस्था एता भुवि महागुणाः । ते नित्यम् एव मुदिता उदिताः ख इवेन्दवः
न खेदम् अधिगच्छन्ति व्योमभागा मलं यथा । नापदि म्लानिम् आयान्ति निशि हेमाम्बुजा यथा
नेहन्ते प्राकृताद् अन्यद् दिनान्यद् भास्करो यथा । रमन्ते स्वे सदाचारे स्वार्तवे पादपा यथा
नित्यम् आपूर्णताम् अन्तर् अक्षुब्धाम् इन्दुसुन्दरीम् । आपद्य् अपि न मुञ्चन्ति शशिनश् शीतताम् इव
आकृत्यैव विराजन्ते मैत्र्यादिगुणकान्तया । नवस्तबकहासिन्या लतयेव महाद्रुमाः
समास् समरसास् सोम्यास् सततं साधुसाधवः । अब्धिवद् धृतमर्यादा भवन्ति वितताशयाः
अतस् तेषां महाबाहो पदम् आपदपासनम् । सर्वदैवानुगन्तव्यं मङ्क्तव्यं नापदर्णवे
तथा तथेह जगति विहर्तव्यम् अखेदिना । आत्मोदयाय वर्तन्ते यथा राजससात्त्विकाः
अधिगम्यार्य सच्छास्त्रं विचार्य च पुनः पुनः । अनित्यतां स्वमनसा विविक्तेनाशु भावयेत्
आदाव् अन्ते च यन् नित्यं रूपं त्रैलोक्यवर्तिनाम् । पदार्थानां तद् एवाशु भावयेन् नेतरन् मुधा
असम्यग्दर्शनं त्यक्त्वा व्यर्थसन्तानम् अन्तवत् । स्मर्तव्यं सम्यग् एवेदं ज्ञानसार्थम् अनन्तकम्
को ऽहं कथम् इदं वेति संसारम् इदम् आततम् । प्रविचार्यं प्रयत्नेन प्राज्ञेन सह साधुना
नाकर्मसु निमङ्क्तव्यं नानार्येण सहावसेत् । द्रष्टव्यस् सर्वविच्छेत्ता न मृत्युर् अवहेलया
उच्चैःपदस्थस् तज्ज्ञेन सुमहाञ् शीतलाशयः । साधुर् एवानुगन्तव्यो मयूरेणाम्बुदो यथा
अहङ्कारस्य देहस्य संसारस्योद्भवस्य च । विचारम् अमलं कृत्वा सत्यम् एवाश्रयेन् नरः
शरीरम् अस्थिमांसं च त्यक्त्वा रक्ताद्य् अशोभनम् । भूतमुक्तावलीतन्तुं चिन्मात्रम् अवलोकयेत्
सत्ये नित्ये तते शुद्धे सर्वगे सर्वभावने । शिवे सर्वम् इदं प्रोतं सूत्रे मणिगणो यथा
यैव चिद् भुवनाभोगभूषणे व्योम्नि भास्करे । धराविवरकोशस्थे सैव चित् कीटकोदरे
कुम्भव्योम्नां न भेदो ऽस्ति यथेह परमार्थतः । चितां शरीरसंस्थानां न भेदो ऽस्ति तथानघ
सर्वेषाम् एव भूतानां तिक्तं कटु च नान्यथा । एकत्वाद् अनुभूतेर् हि कुतश् चिन्मात्रभिन्नता
एकस्मिन्न् एव सततं स्थिते चिन्मात्रवस्तुनि । जातो ऽयम् अयम् उन्नष्ट इति कैषाज्ञतेह वः
नेह तन् नाम वस्त्व् अस्ति यद् अभूत्वा प्रजायते । न च तन् नाम वस्त्व् अस्ति यद् भूत्वा प्रविलीयते
आभासमात्रम् एवेदं न सन् नासच् च राघव । उत्प्लुतेनाप्रशान्तेन चेतसा सद् इव स्थितम्