आगतेष्व् ईश्वराद् व्योमवातमध्यविवर्तिषु । मनस्स्व् अन्येषु वातान्ताल् लोलालातात् कणेष्व् इव
अनारतं विनिर्यान्ति विशन्त्य् अन्ये तथाभितः । राम ब्रह्मणि जीवौघास् तरङ्गा इव वारिधौ
अनाद्यन्तपदोत्पन्नाः कलनापदम् आगताः । भूताकाशं विशन्त्य् अन्ये धूमश्रिय इवाम्बुदम्
एकतां तत्र गच्छन्ति भूततन्मात्रमण्डलैः । मन्दारकुसुमामोदा यथा मधुरमारुतैः
ते तु तन्मात्रवातेन तत्प्राणत्वम् उपेयुषा । आक्रम्यन्ते प्रचण्डेन दैत्यौघेनामरा इव
भूतप्राणानिलोत्थेन तेन गन्धवहेन ते । निवेश्यन्ते शरीरेषु गन्धा घ्राणव्रणेष्व् इव
तेषु भूतशरीरेषु जीवा गच्छन्ति वीर्यताम् । ततो जगति जायन्ते भवन्ति प्राणिनस् स्फुटाः
अन्ये धूमादिमार्गेण गर्भताम् एत्य देहिनाम् । प्राणिताम् उपगच्छन्ति चिरं स्थावरतां च वा
केचित् पवनमार्गेण शालिकोटरशायिनः । वीर्यताम् एत्य जायन्ते विविधाः प्राणधर्मिणः
काचिद् उत्पन्नमात्रैव राम जीवपरम्परा । तन्मात्रवलिता तावत् तिष्ठत्य् अम्बरकोटरे
उदेति यावद् भगवान् इन्दुर् उद्दाममण्डलः । क्षीराम्बुभिर् इवालोलैः प्लावयन् रश्मिभिर् जगत्
ततस् तेष्व् अतिरम्येषु चन्द्ररश्मिषु सा पदम् । करोति विहगी लोला वृक्षाद् वृक्षान्तरेष्व् इव
तेभ्यो ऽपि चन्द्ररश्मिभ्यो विशत्य् ओषधिपल्लवान् । नवं कुमुदिनीषण्डं पद्मिनीभ्य इवालिनी
तयौषधिफलान्य् अन्तस् स्वादवन्ति भवन्त्य् अलम् । इक्षुनाल्यो रसेनेव यान्ति पीवरताम् अपि
फलेषु तेषु बध्नाति पदम् इन्दुकरच्युता । जीवाली क्षीरपूर्णेषु मातृस्तनभरेष्व् इव
ताः फलावलयः पक्वा भक्ष्यन्ते यैश् शरीरिभिः । तेष्व् एव वीर्यम् आगत्य तिष्ठन्त्य् अप्रविबोधिताः
प्रसुप्तवासनाजाला जीवश्रीर् गर्भपञ्जरम् । अधितिष्ठति बीजश्रीस् सुप्तपत्त्रा यथा घटम्
यथा काष्ठे स्थितो वह्निर् यथा मृदि घटस् स्थितः । यथा क्षीरे स्थितं सर्पिर् वीर्ये जीवस् तथा स्थितः
अनेन क्रमयोगेन परागत्य महेश्वरात् । अदृष्टान्यशरीरश्रीर् जायते यो नरो भुवि
स हि सात्त्विकजातिस् स्याद् उदारव्यवहारवान् । तेनैव मोक्षभागी चेज् जन्मना तत् स सात्त्विकः
अथेत्थं योनिम् आसाद्य भुक्त्वा जन्मपरम्पराम् । मोक्षार्थं प्राप्तजन्मा चेत् तत् स राजससात्त्विकः
पाश्चात्यजन्मनः पुंसः क्रमं वक्ष्यामि ते ऽधुना । राम राजससत्त्वस्य मोक्षम् आयात्य् असौ यथा
प्राथम्येन य आयातस् संसारम् अतिसात्त्विकः । स कदाचित् क्वचित् कश्चित् सम्भवत्य् अनघाकृते
सम्भवन्तीह पुरुषा राम राजससात्त्विकाः । प्रविचार्यास् त एवातो गन्तव्यं चेह तद्दृशा
प्राथम्येन समायाता ये पदात् परमात्मनः । दुर्लभाः पुरुषा राम ते महागुणशालिनः
ये चान्ये विविधा मूका मूढास् तामसजातयः । तेषां स्थावरतुल्यानां किं तद् राम विचार्यते
कतिपयाधिगतात्मभवान्तरः प्रकृतजन्मनि लभ्यमहापदः । अयम् इह प्रविचारणयोग्यताम् अनुगतो ननु राजससात्त्विकः
ये हि राजससत्त्वस्था एता भुवि महागुणाः । ते नित्यम् एव मुदिता उदिताः ख इवेन्दवः
न खेदम् अधिगच्छन्ति व्योमभागा मलं यथा । नापदि म्लानिम् आयान्ति निशि हेमाम्बुजा यथा
नेहन्ते प्राकृताद् अन्यद् दिनान्यद् भास्करो यथा । रमन्ते स्वे सदाचारे स्वार्तवे पादपा यथा