ध्यानात् कदाचिद् भगवान् स्वयं विरमति प्रभुः । चिद्वशात् सलिलस्पन्दात् सोम्यत्वाद् इव वारिधिः
विचारयति संसारं सुखदुःखसमन्वितम् । आशापाशशतैर् बद्धं रागद्वेषभयातुरम्
ततस् स करुणाक्रान्तमना भूतविभूतये । करोतीह महार्थानि शास्त्राणि विविधानि च
अध्यात्मज्ञानगर्भाणि वेदवेदान्तवन्ति च । पुराणादीनि चान्यानि मुक्तये सर्वदेहिनाम्
पुनस् तत् परम् आलम्ब्य पदम् आपद्विवर्जितम् । स्वस्थस् तिष्ठति शान्तात्मा निर्मन्दर इवार्णवः
अवलोक्य जगच्चेष्टां मर्यादायां नियोज्य च । ब्रह्मा कमलपीठस्थः पुनस् स्वात्मनि तिष्ठति
केवलं जन्मसंस्कारवशतस् तस्य तद् वपुः । अपुनर्जननायैव चक्रभ्रमवद् आस्थितम्
न रोचते ऽस्य सन्त्यागो वपुषो न च सङ्ग्रहः । नात्मा न चेतरन् नेहा न स्थितिर् नास्थितिस् तथा
सर्वभावसमारम्भस् समस् सर्वासु वृत्तिषु । परिपूर्णार्णवाकारो मुक्त एवावतिष्ठते
कदाचित् केवलं सर्वसङ्कल्पपरिहीनया । यदृच्छयानुग्रहार्थं लोकानां प्रविबुध्यते
एषा ब्राह्मी स्थितिः पुण्या या मयोक्ता महामते । जातिं विद्धि सुरानीके ताम् एतां सात्त्विकीम् इति
विसर्गे परमाकाशे ब्रह्मणो या मनःकला । उदेति प्रथमं सैषा ब्रह्मत्वं समुपाश्नुते
सर्गे स्थितिं गते त्व् अन्या योदेति कलना परा । सा व्योमानिलम् आश्रित्य प्रविष्यौषधिपल्लवान्
काचित् सुरत्वम् आयाति पुरुषत्वम् अथापरा । काचित् तिर्यक्त्वम् आयाति काचिद् आयाति यक्षताम्
चन्द्ररश्मिप्रणालेन गृहीतौषधिपल्लवा । या यत् सत्त्वं समभ्येति सा तद् एवाशु जायते
जाता संसर्गवशतस् तस्मिन्न् एव हि जन्मनि । बध्यते मुच्यते वासौ स्वचमत्कारभेदतः
इत्थं गता स्थितिम् इयं किल रामभद्र सृष्टिस् स्फुटं प्रकटसङ्कटकर्मबन्धा । आविर्भवद्विविधवेषविहारभारसंरम्भगर्भविधुरा कलनापदेन
अस्मिन् भगवति ब्रह्मण्य् अमलं पदम् आस्थिते । पितामहे महाबाहो कृतसर्गव्यवस्थितौ
जगज्जीर्णारघट्टे ऽस्मिन् वहति स्वव्यवस्थया । विप्रोतभूतघटया रज्ज्वा जीविततृष्णया
ब्रह्मोत्थेषु च जीवेषु विशत्सु भवपञ्जरम् । वासनालूनशीर्णेषु पयोराशिं पयस्स्व् इव
आगतेष्व् ईश्वराद् व्योमवातमध्यविवर्तिषु । मनस्स्व् अन्येषु वातान्ताल् लोलालातात् कणेष्व् इव
अनारतं विनिर्यान्ति विशन्त्य् अन्ये तथाभितः । राम ब्रह्मणि जीवौघास् तरङ्गा इव वारिधौ
अनाद्यन्तपदोत्पन्नाः कलनापदम् आगताः । भूताकाशं विशन्त्य् अन्ये धूमश्रिय इवाम्बुदम्
एकतां तत्र गच्छन्ति भूततन्मात्रमण्डलैः । मन्दारकुसुमामोदा यथा मधुरमारुतैः
ते तु तन्मात्रवातेन तत्प्राणत्वम् उपेयुषा । आक्रम्यन्ते प्रचण्डेन दैत्यौघेनामरा इव
भूतप्राणानिलोत्थेन तेन गन्धवहेन ते । निवेश्यन्ते शरीरेषु गन्धा घ्राणव्रणेष्व् इव
तेषु भूतशरीरेषु जीवा गच्छन्ति वीर्यताम् । ततो जगति जायन्ते भवन्ति प्राणिनस् स्फुटाः
अन्ये धूमादिमार्गेण गर्भताम् एत्य देहिनाम् । प्राणिताम् उपगच्छन्ति चिरं स्थावरतां च वा
केचित् पवनमार्गेण शालिकोटरशायिनः । वीर्यताम् एत्य जायन्ते विविधाः प्राणधर्मिणः
काचिद् उत्पन्नमात्रैव राम जीवपरम्परा । तन्मात्रवलिता तावत् तिष्ठत्य् अम्बरकोटरे