सङ्कल्पजालरूपस्य मनसः कल्पिताकृतेः । अकरोत् तस्य सङ्कल्पलक्ष्मीः पदम् अथान्तरे
ततस् सङ्कल्पयाम् आस पूर्वं तेजो महाप्रभम् । लसदग्निलताचक्रवक्रीकृतदिगन्तरम्
ऋक्षप्रतिमनिष्ठ्यूतकर्कशाग्निकणोत्करम् । मुञ्जपिञ्जरपर्यन्तहेमकाननिताम्बरम्
ज्वालाहेमलताजालजटालनिजमण्डलम् । कचत्प्रसरदुद्दामकरकुण्डलमण्डितम्
तच्छरीरि मनस् तस्मिंस् ततस् तेजसि भास्वरे । आत्माकारसमाकारं भास्करं समकल्पयत्
स ततस् तेजसस् तस्माद् अभ्युदेति दिवाकरः । ज्वालामण्डलमध्यस्थो ज्वलत्कनककुण्डलः
ज्वालाजटाभारधरो वान्तविस्फारपावकः । ज्वालाविलासावयवः पूरिताकाशमण्डलः
अथ ब्रह्मा महाबुद्धिर् अन्यांस् तांस् तेजसः कणान् । अकस्मात् प्रतिभातेन विमानत्वेन चारुणा
क्षणात् सङ्कल्पयाम् आस ददर्श च तथैव तान् । सङ्कल्पान् अन्तरं जातान् विद्वाञ् शब्दगणान् इव
स्थितिर् एषा महाबाहो प्रतिसर्गं स्वयम्भुवः । प्रत्यहं च प्रतिजगत् सङ्कल्पितसुरासुरा
कालं कालविभक्तीश् च नक्षत्राणि ग्रहांस् तथा । सरितस् सागरान् द्वीपान् दिशश् शैलांस् तथावनिम्
देवान् दैत्यान् नरान् नागान् गन्धर्वान् यक्षराक्षसान् । अकल्पयद् अयं ब्रह्मा तरङ्गान् इव सागरः
तेषां देशान् गिरींश् चैव विमानान्य् उत्तमानि च । कर्माणि प्रविभक्तानि पद्मजस् समकल्पयत्
ते ऽपि सङ्कल्पसम्प्राप्तसिद्धयस् सर्वशक्तयः । यथासङ्कल्पितं वस्तु क्षणाद् ददृशुर् अग्रतः
सङ्कल्पयन्त्य् अथान्यांस् ते नानाभूतगणान् बहून् । ते ऽप्य् अन्यांस् तत्र ते ऽप्य् अन्यांस् ते ऽप्य् अन्यान् विविधान् अपि
संस्मृत्य वेदांस् तदनु यज्ञक्रमगुणान्वितान् । जगद्गृहवधूं ब्रह्मा मर्यादां समकल्पयत्
ब्राह्मं रूपम् उपादाय मनो मायि महद्वपुः । तनोतीत्थम् इमां सृष्टिं भूतसन्ततिसङ्कुलाम्
समुद्राचलवृक्षाढ्यां कृतलोकान्तरक्रमाम् । मेरुभूपीठदिक्कुञ्जजटालोदरमण्डलाम्
सुखदुःखजराजन्ममरणव्याधिवेधिताम् । रागद्वेषभयाविद्धां गुणत्रयमयात्मिकाम्
मनोभिस् तैर् विरिञ्चोत्थैर् यद् यथा कल्पितं पुरा । तत् तथैवाखिलं दृष्टं दृश्यते ऽद्यापि मायया
इत्थं सर्वेषु सर्गेषु केषुचित् त्व् अथ वाप्य् अजः । सङ्कल्पयति संसारं परिपश्यति च स्थिरम्
मोह एवम् अयं मिथ्या जागतस् स्थिरतां गतः । सङ्कल्पनेन मनसा कल्पितो ऽविरतं स्वयम्
सङ्कल्पवशतस् सर्वाः प्रसरन्ति जगत्क्रियाः । सङ्कल्पवशतो देवी नियतिर् नियता स्थिता
रोपितायां प्रजानाथैस् सृष्टौ स कमलोद्भवः । ब्रह्मा सञ्चिन्तयत्य् एष पद्मासनगतः प्रभुः
मनस्स्पन्दनमात्रेण चित्रं चित्रेयम् उत्थिता । सृष्टिर् आभोगिनी स्फारव्यवहारविकारिणी
इन्द्रोपेन्द्रनरेन्द्राढ्या शैलसागरसङ्कुला । पातालरोदोदिग्वर्गमार्गसङ्कटकोटरा
सङ्कल्पजालम् अखिलं मयेदम् अहितं ततम् । अधुना विरमाम्य् अस्मात् सङ्कल्पोल्लासनक्रमात्
इति निश्चित्य विरतस् कल्पनानर्थसङ्कटात् । अनादिमत् परं ब्रह्म स्मरत्य् आत्मानम् आत्मना
तम् आसाद्य तदाभासे पदे गलितमानसः । सुखं तिष्ठति शान्तात्मा तल्पे ऽध्वश्रमवान् इव
निर्ममो निरहङ्कारः परां शान्तिम् उपागतः । अविक्षुब्ध इवाम्भोधिर् आत्मनात्मनि तिष्ठति