अत्रैव वस्तुन्य् उचिते शृणु राघव पूर्वजाः । कचेन गाथा या गीता बार्हस्पत्येन पावनीः
कस्मिंश्चिन् मेरुगहने तिष्ठन् सुरगुरोस् सुतः । कदाचिद् अभ्यासवशाद् विश्रान्तिं प्रापद् आत्मनि
सम्यग्ज्ञानामृतापूर्णा मतिर् नारमतास्य सा । पञ्चभूतमये म्लाने दृश्ये ऽस्मिन् पेलवात्मनि
तेन निर्विण्ण इव स आत्मतत्त्वाद् ऋते परम् । अपश्यन् समुवाचेदम् एको गद्गदया गिरा
किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम् । आत्मना पूरितं विश्वं महाकल्पाम्बुना यथा
दुःखम् आत्मा सुखं चैव खम् आशास् त्वम् अहं तथा । सर्वम् आत्ममयं जातं कष्टं नष्टो ऽहम् आत्मना
सबाह्याभ्यन्तरं देहेष्व् अध ऊर्ध्वं च दिक्षु च । इत आत्मा तथेहात्मा नास्त्य् अनात्ममयं क्वचित्
सर्वत्रैव स्थितो ह्य् आत्मा सर्वम् आत्मनि संस्थितम् । सर्वम् एवेदम् आत्मैवम् आत्मन्य् एव नमाम्य् अहम्
न तद् अस्ति न यत्राहं न तद् अस्ति न यन् मयि । किम् अन्यद् अभिवाञ्छामि केवलं प्रशमाम्य् अहम्
आत्मनात्मनि येनाहं नमाम्य् आपूरितात्मना । उपशाम्यामि तेनान्तः क्वान्यत्राभिपताम्य् अहम्
अहम् अग्निर् अहं वायुर् अहं भूर् अहम् अम्बरम् । यन् नाहं नास्ति तत् किञ्चित् सर्वम् एवाहम् आततम्
आपूरितापारनभोमहाभैरवरूपवान् । सर्वसंविन्मयः पूर्णस् तिष्ठाम्य् एकार्णवोपमः
इत्य् एवं भावयन् भावं कनकाचलकुञ्जके । उच्चारयन्न् अथोङ्कारं घण्टास्वनम् इव क्रमात्
ओङ्कारस्य कलाम् अर्धां पाश्चात्यां वालकोमलाम् । नान्तरस्थेन बाह्ये न भावयन् परमे हृदि
व्यपगतकलनाकलङ्कशुद्धो हृदयनिरन्तरलीनवातवृत्तिः । गतघनशरदम्बरोपमानः कच उपलाचलमूर्तिमान् अतिष्ठत्
अन्नपानाङ्गनासङ्गाद् ऋते नास्तीह किञ्चन । शुभं वस्त्व् अविसंवादि महान् किम् अभिवाञ्छतु
तिर्यञ्चः पशवो मूढा येन तुष्यन्त्य् असाधवः । भोगादिना कथं तेन रतिम् आयान्ति साधवः
भोगैः कृपणसर्वस्वैर् आदिमध्यान्तपेलवैः । विश्वासं यान्ति ये लोके तैर् अलं नरगर्दभैः
इतः केशा इतो रक्तम् इतीयं प्रमदातनुः । एतया तोषम् आयान्ति सारमेया न मानवाः
मृन् मही दारु तरवो देहो मांसं दृषद् गिरिः । अधो भूर् अम्बरं पृष्ठे किम् अपूर्वं सुखाय यत्
मात्रास्पर्शानुसारिण्यो विवेकपदभङ्गुराः । मोहायैव परामृष्टास् सकला लोकसंविदः
सर्वस्या एव पर्यन्ते शुभाया अपि संस्थितेः । मलिनं दुःखम् अस्त्य् एव ज्वालाया इव कज्जलम्
आगमापायतो ऽनित्या मनष्षष्ठेन्द्रियक्रियाः । लता नागेन्द्रम् इव ता धारयन्ति न सत्पदम्
पुत्रिका रक्तमांसस्य कान्तेयम् इति सादरम् । स्वदेहनाम्न्य् अस्थिचये श्लिष्यते सेति कः क्रमः
सर्वं सत्यम् इदम् राम स्थिरम् अज्ञस्य तुष्टये । ज्ञस्यास्थिरम् असत्यं च जगद् राम न तुष्टये
अभुक्ते ऽपि विषे यैषा विषमूर्छां प्रयच्छति । तां परित्यज्य भावास्थाम् आत्मैकत्वाज् ज्ञतां व्रज
अनात्मन्य् आत्मभावेन चित्तं स्थितिम् उपागतम् । यदा तदेदम् आयातं जगज्जालम् असन्मयम्
वासनावशतो ब्रह्ममनसा कल्पितं वपुः । तेजसाश्रितकुड्येन हेमाभत्वम् इवात्मनः
वैरिञ्चपदम् आसाद्य मनो ब्रह्मन् महामते । इदं जगत् सुघनतां कथम् आनयति क्रमात्
गर्भतल्पात् समुत्थाय पद्मजः प्रथमं शिशुः । ब्रह्मेति शब्दम् अकरोद् ब्रह्मा तेन स उच्यते