अस्थिखण्डार्गला मूर्धपिधानास् स्नायुशृङ्खलाः । जगद्देहा जगज्जीवरत्नमांससमुद्गकाः
वनबालमृगीमुग्धाः परसञ्चारितास् स्थितौ । बालबुद्धिविनोदाय योषितश् चर्मपुत्रिकाः
एवंविधोदारमना मनाग् अपि महामतिः । न ज्ञश् चलति भोगौघैर् मुखवातैर् इवाचलः
तस्मिन् किल पदे राम ज्ञस् तिष्ठति महोन्नतौ । यस्माच् चन्द्रार्कदेशो ऽपि नः पातालम् इव स्थितः
इमांल् लोकान् अनालोकाञ् जातालोकास् सुवेदिनः । सरीसृपान् वयम् इव पश्यन्त्य् ऊढान् भवार्णवे
न केचन जगद्भावास् तत्त्वज्ञं रञ्जयन्त्य् अमी । नागरं नागरीकान्तं कुग्रामलटभा इव
न केचन जगद्भावास् तत्त्वज्ञं रञ्जयन्त्य् अमी । अप्य् अभ्याशगतास् स्फारहृदयं खम् इवाम्बुदाः
न केचन जगद्भावास् तत्त्वज्ञं रञ्जयन्त्य् अमी । मर्कट्य इव नृत्यन्त्यो गौरीलास्यार्थिनं हरम्
न केचन जगद्भावास् तत्त्वज्ञं रञ्जयन्त्य् अमी । प्राक्तनप्रतिबिम्बश्री रत्नं कुम्भगतं यथा
चक्रार्पितोपमम् असन्मयम् अम्बुभङ्गत्वङ्गत्तरङ्गकृतबिम्बम् इवावलोक्य । लोकं तदीहितसुखेषु रतिं न याति तज्ज्ञः कुशेवललवेष्व् इव राजहंसः
अत्रैव वस्तुन्य् उचिते शृणु राघव पूर्वजाः । कचेन गाथा या गीता बार्हस्पत्येन पावनीः
कस्मिंश्चिन् मेरुगहने तिष्ठन् सुरगुरोस् सुतः । कदाचिद् अभ्यासवशाद् विश्रान्तिं प्रापद् आत्मनि
सम्यग्ज्ञानामृतापूर्णा मतिर् नारमतास्य सा । पञ्चभूतमये म्लाने दृश्ये ऽस्मिन् पेलवात्मनि
तेन निर्विण्ण इव स आत्मतत्त्वाद् ऋते परम् । अपश्यन् समुवाचेदम् एको गद्गदया गिरा
किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम् । आत्मना पूरितं विश्वं महाकल्पाम्बुना यथा
दुःखम् आत्मा सुखं चैव खम् आशास् त्वम् अहं तथा । सर्वम् आत्ममयं जातं कष्टं नष्टो ऽहम् आत्मना
सबाह्याभ्यन्तरं देहेष्व् अध ऊर्ध्वं च दिक्षु च । इत आत्मा तथेहात्मा नास्त्य् अनात्ममयं क्वचित्
सर्वत्रैव स्थितो ह्य् आत्मा सर्वम् आत्मनि संस्थितम् । सर्वम् एवेदम् आत्मैवम् आत्मन्य् एव नमाम्य् अहम्
न तद् अस्ति न यत्राहं न तद् अस्ति न यन् मयि । किम् अन्यद् अभिवाञ्छामि केवलं प्रशमाम्य् अहम्
आत्मनात्मनि येनाहं नमाम्य् आपूरितात्मना । उपशाम्यामि तेनान्तः क्वान्यत्राभिपताम्य् अहम्
अहम् अग्निर् अहं वायुर् अहं भूर् अहम् अम्बरम् । यन् नाहं नास्ति तत् किञ्चित् सर्वम् एवाहम् आततम्
आपूरितापारनभोमहाभैरवरूपवान् । सर्वसंविन्मयः पूर्णस् तिष्ठाम्य् एकार्णवोपमः
इत्य् एवं भावयन् भावं कनकाचलकुञ्जके । उच्चारयन्न् अथोङ्कारं घण्टास्वनम् इव क्रमात्
ओङ्कारस्य कलाम् अर्धां पाश्चात्यां वालकोमलाम् । नान्तरस्थेन बाह्ये न भावयन् परमे हृदि
व्यपगतकलनाकलङ्कशुद्धो हृदयनिरन्तरलीनवातवृत्तिः । गतघनशरदम्बरोपमानः कच उपलाचलमूर्तिमान् अतिष्ठत्
अन्नपानाङ्गनासङ्गाद् ऋते नास्तीह किञ्चन । शुभं वस्त्व् अविसंवादि महान् किम् अभिवाञ्छतु
तिर्यञ्चः पशवो मूढा येन तुष्यन्त्य् असाधवः । भोगादिना कथं तेन रतिम् आयान्ति साधवः
भोगैः कृपणसर्वस्वैर् आदिमध्यान्तपेलवैः । विश्वासं यान्ति ये लोके तैर् अलं नरगर्दभैः
इतः केशा इतो रक्तम् इतीयं प्रमदातनुः । एतया तोषम् आयान्ति सारमेया न मानवाः
मृन् मही दारु तरवो देहो मांसं दृषद् गिरिः । अधो भूर् अम्बरं पृष्ठे किम् अपूर्वं सुखाय यत्