तामसीर् वासनाः पूर्वं त्यक्त्वा विषयवासिताः । मैत्र्यादिभावनानाम्नीर् गृहाणामलवासनाः
ता अप्य् अन्तः परित्यज्य ताभिर् व्यवहरन् बहिः । अन्तश् शान्तसमस्तेहो भव चिन्मात्रवासनः
ताम् अप्य् अथ परित्यज्य मनोबुद्धिसमन्विताम् । शेषे स्थिरसमाधानो येन त्यजसि तं त्यज
चिन्मनःकलनाकालप्रकाशतिमिरादिकम् । वासनां वासितारं च प्राणस्पन्दनपूर्वकम्
समूलम् अखिलं त्यक्त्वा व्योमसोम्यः प्रशान्तधीः । यस् त्वं भवसि सद्बुद्धे स भवाश्व् अविलम्बितः
हृदयात् सम्परित्यज्य सर्वम् एव महामतिः । यस् तिष्ठति गतव्यग्रं स मुक्तः परमेश्वरः
समाधिम् अथ कर्माणि मा करोतु करोतु वा । हृदयेनास्तसर्वार्थो मुक्त एवोत्तमाशयः
नैष्कर्म्येण न तस्यार्थो न तस्यार्थो ऽस्ति कर्मभिः । न समाधानजप्याभ्यां यस्य निर्वासनं मनः
विचारितम् अलं शास्त्रं चिरम् उद्ग्राहितं मिथः । सन्त्यक्तवासनान् मौनाद् ऋते नास्त्य् उत्तमं पदम्
दृष्टं द्रष्टव्यम् अखिलं भ्रान्त्वाभ्रान्ता दिशो दश । जनाः कतिपया एव यथावस्त्व् अवलोकिनः
यद् यद् आलोक्यते किञ्चिद् यत्र यत्र च गम्यते । ईप्सितानीप्सिताद् अन्यन् न तत्र यतते जनः
ये केचन समारम्भा ये जनस्य क्रियाक्रमाः । ते सर्वे देहमात्रार्थम् आत्मार्थं तु न किञ्चन
पाताले ब्रह्मलोके च स्वर्गे ऽथ वसुधातले । सन्तः कतिपया एव दृश्यन्ते दृष्टदृष्टयः
इदं हेयम् उपादेयम् इदम् इत्य् असदुत्थितौ । निश्चयौ गलितौ यस्य ज्ञस्यासाव् अतिदुर्लभः
करोतु भुवने राज्यं विशत्व् अनलम् अम्बु वा । नात्मलाभाद् ऋते जन्तुर् विश्रान्तिम् अधिगच्छति
ये महामतयस् सन्ति शूरास् स्वेन्द्रियशत्रुषु । जन्मज्वरविनाशाय त उपास्या महाधियः
सर्वत्र पञ्चभूतानि षष्ठं किञ्चिन् न विद्यते । पाताले भूतले व्योम्नि रतिम् एति क्व धीरधीः
युक्त्या सन्तरतो ज्ञस्य संसारो गोष्पदाकृतिः । दूरसन्त्यक्तयुक्तेस् तु महामत्तार्णवोपमः
कदम्बगोलकस्वच्छं ब्रह्माण्डं स्फारचेतसः । किं प्रयच्छति किं भुङ्क्ते प्राप्ते ऽस्मिन् सकले ऽपि सः
एतदर्थम् अबुद्धीनां यन् महासमरक्रियाः । तन् मन्ये राम भिक्षार्थं द्वन्द्वलक्षक्षयावहम्
कल्पमात्रेण कालेन सहसा पेलवोदरे । अस्मिन्न् अपि च यो नाशस् स वीरुधि महाशनिः
आत्मनो ऽंशस्य सर्वादेर् यत् तृणाद् अपि नोत्तमम् । तस्मिञ् जगत्त्रये प्राप्तं किं तद् आत्मवतो भवेत्
इतश् शैलशतैर् व्याप्तस् तथेतो जलराशिभिः । कियान् अस्या भुवो देहो येनोदारं प्रपूरयेत्
न तद् अस्ति जगत्य् अस्मिन् सपातालहरालये । यन् नामात्मवतो ज्ञस्य किञ्चित् कार्यकरं भवेत्
एकताम् अनुयातस्य व्योमवद् विततस्य च । स्वस्थस्यात्मवतो ज्ञस्य स्थितस्यात्मन्य् अचेतसि
शरीरजालनीहारधूसरा शून्यकोटरा । शान्तसञ्चारसुभगा त्रिलोकी विपुलाटवी
स्फारब्रह्मामलाम्भोधिफेनास् सर्वे कुलाचलाः । चिदादित्यमहातेजोमृगतृष्णा जगच्छ्रियः
आत्मतत्त्वमहाम्भोधिवीचयस् सर्गराजयः । अनुत्तमपदाम्भोदवृष्टयश् शास्त्रदृष्टयः
चन्द्रार्कतपनालोका घटकाष्ठादिसन्निभाः । प्रकाशनीयाश् चिद्दीपत्विषो भूतगणास् तथा
चिरम् अन्तर्हितात्मानस् संसारवनचारिणः । कामभोगोलपग्रासा मृगा नरसुरासुराः