अहं यत्र करोमीमं समग्रं जागतं भ्रमम् । रागद्वेषक्रमस् तत्र कुतो ऽन्यस्यात्यसम्भवात्
यद् अन्येन शरीरं मे दग्धम् अन्येन लालितम् । स मदारम्भ एवातः कः खेदोल्लासयोः क्रमः
मत्सुखासुखविस्तारे जगज्जालक्षयोदये । अहं कर्तेति मत्वान्तः कः खेदोल्लासयोः क्रमः
खेदोल्लासविलासे तु स्वात्मकर्तृतयैकया । स्वयम् एव लयं याते समतैवावशिष्यते
समता सर्वभावेषु यासौ सत्या परा स्थितिः । तस्याम् अवस्थितं चित्तं न भूयो दुःखम् आप्नुयात्
अथ वा सर्वकर्तृत्वम् अकर्तृत्वं च राघव । सर्वं त्यक्त्वा मनः पीत्वा यो ऽसि सो ऽसि स्थिरो भव
अयं सो ऽहम् अयं नाहं करोमीदम् इदं न तु । इति भावानुसन्धानमयी दृष्टिर् न तुष्टये
सा कालसूत्रपदवी सा महावीचिवागुरा । सासिपत्त्रवनश्रेणी या देहो ऽहम् इति स्थितिः
सा त्याज्या सर्वयत्नेन सर्वनाशे ऽप्य् उपस्थिते । स्प्रष्टव्या सा न भव्येन सश्वमांसेव पुक्कसी
तया सुदूरोज्झितया दृष्टौ पाटललेखया । उदेति परमा दृष्टिर् ज्योत्स्नेव विगताम्बुदा
कर्ता नास्मि न चायम् अस्मि स इति ज्ञात्वैवम् अन्तस् स्फुटं कर्तैवास्मि समग्रम् अस्मि तद् इति ज्ञात्वाथ वा निश्चयम् । को ऽप्य् एवास्मि न कश्चिद् एवम् इति वा निर्णीय सर्वोत्तमं तिष्ठ त्वं स्वपदे स्थिताः पदविदो यत्रोत्तमास् साधवः
सत्यम् एतत् त्वया ब्रह्मन् यद् उक्तं सूक्तिसुन्दरम् । अकर्तैव हि कर्तात्मा भोक्ताभोक्तैव भूतभृत्
सर्वेश्वरस् सर्वमयश् चिन्मात्रम् अमलं पदम् । स्वानुभूतिवपुर् देवस् सर्वभूतान्तरस्थितः
हृदयङ्गमतां यातम् इदानीं ब्रह्म मे प्रभो । त्वदुक्तिभिर् यथा शीतं धाराभिर् भूभृतः पयः
औदासीन्याद् अनिच्छत्वान् न भुङ्क्ते न करोति च । समग्रालोककारित्वाद् भुङ्क्ते देवः करोति च
किं त्व् अयं भगवन् स्फारस् संशयो मे हृदि स्थितः । छिन्द्धि तं त्वं गिरा ब्रह्मन् दीधित्येन्दुर् यथा तमः
इदं सत् तद् इदं चासद् अयं सो ऽहम् अयं भवान् । अयम् एको द्वितीयो ऽयम् इत्यादिकलनामलम्
एकस्मिन् वितते शान्ते नीहार इव भास्करे । इदम्प्रथमम् एवाच्छे कथम् आत्मनि संस्थितम्
सिद्धान्तकाल एवास्य सत्प्रश्नस्योत्तरस्थितिम् । कथयिष्यामि ते राम ज्ञास्यस्य् एनां तदैव च
मोक्षोपायस्य सिद्धान्तसमयं प्राप्य राघव । श्रोतुं प्रश्नोत्तराण्य् एतान्य् अलं योग्यो भविष्यसि
कान्तागेयगिरां राम भाजनं तरुणो यथा । प्रश्नानाम् उत्तमोक्तीनां प्राप्तदृग् भाजनं तथा
व्यर्था भवति बालेषु यथा रागमयी कथा । निरर्थकाल्पबोधेषु तथोदारोदया कथा
कस्मिंश्चिद् एव समये किञ्चित् पुंसो विराजते । फलम् आभाति वृक्षस्य शरद्य् एव न माधवे
उपदेशगिरो वृद्धे रञ्जना निर्मले पटे । लगन्त्य् उदारविज्ञानकथाश् चाधिगतात्मनि
प्रश्नस्यास्योत्तरं पूर्वं लेशतः कथितं मया । न विस्तरेण तेनैतन् न ज्ञातं भवता स्फुटम्
यदि त्वम् आत्मनात्मानम् अधिगच्छसि तत् स्वयम् । एतत् प्रश्नोत्तरं साधो जानास्य् अत्र न संशयः
मया सिद्धान्तकाले तु प्राप्तबोधे त्वयि स्थिते । वक्तव्यो विस्तरेणैष साधो प्रश्नोत्तरक्रमः
जानात्य् आत्मानम् आत्मैव कृत आत्मात्मनैव हि । आत्मैव सम्प्रसन्नस् सन्न् आत्मानं प्रतिपद्यते
मयैतत् कथितं राम कर्त्रकर्तृविचारणम् । वासनामयनाशाय तज्ज्ञो निर्वासनो भवेत्
बन्धो हि वासनाबन्धो मोक्षस् स्याद् वासनाक्षयः । वासनास् त्वं परित्यज्य मोक्षार्थित्वम् अपि त्यज