यतः कुतश्चिद् एवेदं सम्पन्नम् इव लक्ष्यते । अर्जुनानिलवद् वारिपूरावर्तवद् आततम्
इति चेद् भवता राम नैपुण्येनावधारितम् । प्रमाणपरिशुद्धेन चेतसा च विचारितम्
तदाति भावना साधो पदार्थं प्रति नार्हति । अलातचक्रे स्वप्ने च भ्रमे वा केव भावना
अकस्माद् आगतो जन्तुस् सौहार्दस्य न भाजनम् । भ्रमभूतं जगज्जालम् आस्थायाश् च न भाजनम्
उष्णेन्दौ शीतले भानौ मृगतृष्णाजले तथा । यथा न भावयस्य् आस्थाम् एवं मा भावय स्थितौ
सङ्कल्पपुरुषं स्वप्नजनं द्वीन्दुत्वविभ्रमम् । यथा पश्यसि पश्य त्वं भावजातम् इदं तथा
अन्तर् आस्थां परित्यज्य भावश्रीभावनामयीम् । यो ऽसि सो ऽसि जगत्य् अस्मिंल् लीलया विहरानघ
अकर्तृत्वपदस्थस्य कर्तृत्वम् अपि कुर्वतः । सर्वभावान्तरस्थस्य सर्वातीतस्य चात्मनः
इयं सन्निधिमात्रेण नियतिः प्रविजृम्भते । दीपसन्निधिमात्रेण निरिच्छेव प्रकाशता
अभ्रसन्निधिमात्रेण कुटजानि यथा स्वयम् । आत्मसन्निधिमात्रेण त्रिजगन्ति तथा स्वयम्
सर्वेच्छारहिते भानौ यथा व्योमनि तिष्ठति । जायते व्यवहारश्रीस् सति देवे तथा क्रिया
निरिच्छे संस्थिते रत्ने यथालोकः प्रवर्तते । सत्तामात्रेण देवेन तथैवायं जगद्गणः
अत आत्मनि कर्तृत्वम् अकर्तृत्वं च संस्थितम् । निरिच्छत्वाद् अकर्तासौ कर्ता सन्निधिमात्रतः
सर्वेन्द्रियाभ्यतीतत्वात् कर्ता भोक्ता न भूतपः । इन्द्रियान्तर्गतत्वात् तु कर्ता भोक्ता स एव हि
द्वे एवात्मनि विद्येते कर्तृताकर्तृते ऽनघ । ययैव पश्यसि श्रेयस् ताम् आश्रित्य स्थिरो भव
सर्वत्राहम् अकर्तेति दृढभावनयानया । प्रवाहापतितं कार्यं कुर्वन्न् अपि न लिप्यसे
सर्वत्राहम् अकर्तेति संविदा भोगकामना । याति नीरसतां जन्तोर् अप्रवृत्तेस् स्वचेतसः
यत्राहं किञ्चिद् एवेह न करोमीति निश्चयः । भोगौघकामनां तत्र कः करोतु जहातु वा
तस्मान् नित्यम् अकर्ताहम् इति भावनयेद्धया । परमामृतनाम्नी सा समतैवावशिष्यते
अथ सर्वं करोमीति महाकर्तृतयानया । यदीच्छसि स्थितिं राम तत् ताम् अप्य् उत्तमां विदुः
अहं यत्र करोमीमं समग्रं जागतं भ्रमम् । रागद्वेषक्रमस् तत्र कुतो ऽन्यस्यात्यसम्भवात्
यद् अन्येन शरीरं मे दग्धम् अन्येन लालितम् । स मदारम्भ एवातः कः खेदोल्लासयोः क्रमः
मत्सुखासुखविस्तारे जगज्जालक्षयोदये । अहं कर्तेति मत्वान्तः कः खेदोल्लासयोः क्रमः
खेदोल्लासविलासे तु स्वात्मकर्तृतयैकया । स्वयम् एव लयं याते समतैवावशिष्यते
समता सर्वभावेषु यासौ सत्या परा स्थितिः । तस्याम् अवस्थितं चित्तं न भूयो दुःखम् आप्नुयात्
अथ वा सर्वकर्तृत्वम् अकर्तृत्वं च राघव । सर्वं त्यक्त्वा मनः पीत्वा यो ऽसि सो ऽसि स्थिरो भव
अयं सो ऽहम् अयं नाहं करोमीदम् इदं न तु । इति भावानुसन्धानमयी दृष्टिर् न तुष्टये
सा कालसूत्रपदवी सा महावीचिवागुरा । सासिपत्त्रवनश्रेणी या देहो ऽहम् इति स्थितिः
सा त्याज्या सर्वयत्नेन सर्वनाशे ऽप्य् उपस्थिते । स्प्रष्टव्या सा न भव्येन सश्वमांसेव पुक्कसी
तया सुदूरोज्झितया दृष्टौ पाटललेखया । उदेति परमा दृष्टिर् ज्योत्स्नेव विगताम्बुदा