बहुनात्र किम् उक्तेन न किञ्चिद् अपि विद्यते । पत्त्रं तत्र तरोर् यत्र नोष्यते वा न भुज्यते
पत्त्रे पत्त्रे मृगास् सुप्ता विश्रान्तास् सुघने घने । कच्छे कच्छे खगा लीनास् तस्य भूरुहभूपतेः
एवंगुणविशिष्टं तं ममालोकयतस् तरुम् । महोत्सवेन सदृशी सा बभूव तमस्वती
ततः कथाभिर् अन्याभिस् स तस्य तनयो मया । विज्ञानालोकरम्याभिर् नीतो बोधं परं पुनः
आवयोस् तत्र चित्राभिः कथाभिर् इतरेतरम् । शर्वरी सा व्यतीयाय मुहूर्त इव कान्तयोः
प्रातः प्रतनुतां याते द्युघर्मजलजालके । खकाननाङ्कुरोद्गारे तारकानिकरे शनैः
आकदम्बनभोभागम् अनुयातं सुतान्वितम् । अहं विसर्ज्य दाशूरं हराचलनदीं गतः
तत्राभिमतम् आसाद्य स्नानम् एत्य नभस्तलम् । प्रविश्य खं मुनीनां च मध्यं स्वस्थम् अवस्थितः
दाशूराख्यायिकैषा ते कथिता रघुनन्दन । जगतः प्रतिबिम्बाभा सत्याकाराप्य् असन्मयी
दाशूराख्यायिकैवेयम् इत्य् एतत् कथितं मया । तुभ्यं राघव घोराघजगद्रूपनिरूपणे
तस्माद् अवास्तवीं त्यक्त्वा वास्तवीम् अपि रञ्जनाम् । दाशूरसिद्धान्तधिया सदोदारो भवात्मवान्
अनेन गच्छामरसुन्दरत्वं कदम्बदाशूरकथारथेन । आसादयिष्यस्य् अचिरात् पुरं तद् भविष्यसीशो भुवनेषु येन
नास्तीदम् इति निर्णीय सर्वतस् त्यज रञ्जनाम् । यन् नास्ति तत् प्रति किल कैवास्थेह विचारिणाम्
दृश्यमानम् अथेदं चेद् अस्ति तत् तव किं गतम् । तिष्ठत्व् आत्मनि बध्नासि त्वं किलात्र किम् आत्मताम्
अथ चेद् अस्ति नास्तीदम् इति निश्चयवान् असि । तथापि भावनासङ्गः कथं युक्तश् चलाचले
नेदम् अस्ति जगद् राम न च नास्ति महामते । केवलं स्वोत्थम् एवेत्थमाभानम् इदम् ईदृशम्
नेदं कर्तृकृतं किञ्चिन् न चाकर्तृकृतक्रमम् । स्वयम् आभासते चेदं कर्त्रकर्तृपदं गतम्
अकर्तृकं जगज्जालं भवत्व् अथ सकर्तृकम् । मा त्वम् एतेन सम्बन्धं भावयानघ चेतसि
सर्वेन्द्रियविहीनात्मा कर्तेह स जडोपमः । अकर्त्र् एव तदा मन्ये काकतालीयवज् जगत्
काकतालीययोगेन जातं यत् किञ्चिद् एव यत् । तस्मिन् भावानुसन्धानं बालो बध्नाति नेतरः
न कदाचिद् इदं शान्तं जगद् राम न च क्षयि । अजस्रं दृश्यमानत्वाद् भावित्वाच् च पुनः पुनः
न कदाचिद् इदं चास्ति जगद् राम न चाक्षयि । अजस्रं क्षीयमाणत्वान् नाशित्वाच् चानुमानतः
सर्वेन्द्रियपदातीतो यदा कर्तेह विज्वरः । कुर्वाणस् स तदा खेदं न कदाचन गच्छति
तेनेयं नियतिः प्रौढा भावाभावदशामयी । ईदृश्य् एव स्थिरा दीर्घा चित्तोत्थापि न नश्यति
अपर्यन्तस्य कालस्य कश्चिद् अंशश् शरच्छतम् । तावन्मात्रमहायुर् यः किम् आस्थां सो ऽनुधावति
स्थिराश् चेज् जागता भावास् तत् तदास्था न शोभते । कथम् अन्योऽन्यसंश्लेषो जडचेतनयोः किल
अस्थिराश् चेज् जगद्भावास् तद् अप्य् आस्था न शोभते । पयःफेनास्थिरास्यान्ते दुःखम् एषा ददाति ते
आस्थाबन्धो महाबाहो जगद्भावत्वदात्मनोः । न स्थिरास्थिरयोः फेनशैलयोर् इव राजते
सर्वकर्ताप्य् अकर्तेव करोत्य् आत्मा न किञ्चन । तिष्ठत्य् अलम् उदासीन आलोकं प्रति दीपवत्
कुर्वन् न किञ्चित् कुरुते दिनकार्यम् इवांशुमान् । गच्छन् न गच्छति स्वस्थस् स्वास्पदस्थो रविर् यथा