समविषमदशाविपाकभिन्नास् त्रिभुवनभूतपरम्पराफलौघाः । समयपवनपातिताः पतन्ति प्रतिदिनम् आततसंसृतिद्रुमेभ्यः
इति मेधोपदावाग्निदग्धे महति चेतसि । प्रस्फुरन्ति न भोगाशा मृगतृष्णास् सरस्स्व् इव
प्रत्यहं चातिकटुताम् एति संसारसंसृतिः । कालपाकवशोल्लासिरसा निम्बलता यथा
वृद्धिम् आयाति दौर्जन्यं सौजन्यं याति तानवम् । करञ्जकर्कशे राजन् प्रत्यहं जनचेतसि
भज्यते भुवि मर्यादा झगित्य् एव दिशं प्रति । शुष्केव माषशिमिका टाङ्कारकठिनारवम्
राज्येभ्यो भोगपूगेभ्यश् चिन्तावन्तो महीश्वराः । निरस्तचिन्ताकलिका वरम् एकान्तशीलता
नानन्दाय ममोद्यानं न सुखाय मम श्रियः । न हर्षाय ममार्थाशा शाम्यामि मनसा सह
अनित्यश् चासुखो लोकस् तृष्णा तात दुरुद्वहा । चापलोपहतं चेतः कथं यास्यामि निर्वृतिम्
नाभिनन्दामि मरणं नाभिनन्दामि जीवितम् । यथा तिष्ठामि तिष्ठामि तथैव विगतज्वरम्
किं मे राज्येन किं भोगैः किम् अर्थेन किम् ईहितैः । अहङ्कारवशाद् एतत् स एव गलितो मम
जन्मावलिवरत्रायाम् इन्द्रियग्रन्थयो दृढाः । ये लग्नास् तद्विमोक्षार्थं ये यतन्ते त उत्तमाः
दलितं मानिनीलोकैर् मनो मकरकेतुना । कोमलं खुरनिष्पेषैः कमलं करिणा यथा
अद्य चेत् स्वस्थया बुद्ध्या मुनीन्द्र न चिकित्स्यते । भूयश् चित्तचिकित्सायां कः किलावसरः कुतः
विषं विषयवैषम्यं न विषं विषम् उच्यते । जन्मान्तरघ्ना विषया एकदेहहरं विषम्
न सुखानि न दुःखानि न मित्राणि न बन्धवः । न जीवितं न मरणं बन्धाय ज्ञस्य चेतसः
तद् भवामि यथा ब्रह्मन् पूर्वापरविदां वर । वीतशोकभयायासो ज्ञस् तथोपदिशाशु मे
वासनाजालवलिता दुःखकण्टकसङ्कटा । निपातोत्पातबहला भीमरूपाज्ञताटवी
क्रकचोग्रविनिष्पेषं सोढुं शक्तो ऽस्म्य् अहं मुने । संसारव्यवहारोत्थं नाशाविषमवैशसम्
इदं नास्तीदम् अस्तीति व्यवहारिजनभ्रमः । धुनोतीदं चलं चेतो रजोराशिम् इवानिलः
तृष्णातन्तुलवप्रोतजीवसञ्चयमौक्तिकम् । चिदच्छाङ्गतया नित्यं प्रकटं चित्तनायकम्
संसारहारम् अरतिः कालव्यालविभूषणम् । त्रोटयाम्य् अहम् अक्रूरां वागुराम् इव केसरी
नीहारं हृदयाटव्यां मनस्तिमिरम् आशु मे । केनचिज् ज्ञानदीपेन भिन्द्धि तत्त्वविदां वर
विद्यन्त एवेह न ते महात्मन् दुराधयो न क्षयम् आप्नुवन्ति । ये सङ्गमेनोत्तममानसानां निशातमांसीव निशाकरेण
आयुर् वायुविघट्टिताब्जपटलीलम्बाम्बुवद् भङ्गुरं भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चलाः । लोलो यौवनलालनाजलरयश् चेत्य् आकलय्य द्रुतं मुद्रैवाद्रिदृढार्पिता ननु मया चित्ते चिरं शान्तये
एवम् अभ्युत्थितानर्थसार्थसङ्कटकोटरम् । जगद् आलोक्य निर्मग्नं मनो मननकर्दमे
मनो मे भ्रमतीवेदं सम्भ्रमश् चोपजायते । गात्राणि परिकम्पन्ते पत्त्राणीव जरत्तरोः
अनाप्तोत्तमसन्तोषचर्योत्सङ्गाकुला मतिः । शून्यास्पदा बिभेतीह बालेवाल्पबलेश्वरा
विकल्पेभ्यो लुठन्त्य् एताश् चान्तःकरणवृत्तयः । श्वभ्रेभ्य इव सारङ्ग्यस् तुच्छालम्बविडम्बिताः
अविवेकास्पदभ्रष्टाः कष्टे रूढा न सत्पदे । अन्धकूपम् इवापन्ना वराकाश् चक्षुरादयः
नावस्थितिम् उपायाति न च याति यथेप्सितम् । चिन्ता जीवेश्वरायत्ता कान्तेवाप्रियसद्मनि