नेदं तव न चास्य त्वं भ्रान्तिं पुत्र परित्यज । असत्ये सत्यवद् दृष्टे भावनां मा न्यवीविशः
मम गुरुविभवोज्ज्वला विलासा इति तव मास्तु वृथैव विभ्रमो ऽन्तः । त्वयि सति वितताश् च ते विलासा विलसति सर्वम् इदं तदात्मतत्त्वम्
इत्य् आकर्ण्य तदा तत्र रात्राव् आलपनं तयोः । अहं रघुकुलाकाशशशाङ्क रघुनन्दन
पतितः खात् कदम्बाग्रे पत्त्रपुष्पलताकुले । तूष्णीं निर्वृष्टिमूकात्मा शृङ्गाग्र इव तोयदः
अपश्यं तत्र दाशूरं शूरं इन्द्रियनिग्रहे । परेण तपसा युक्तं तेजसेव हुताशनम्
तेजोभिर् देहनिष्क्रान्तैः काञ्चनीकृतभूरुहैः । तापयन्तं प्रदेशं तं भुवनं भास्करं यथा
माम् अथालोक्य सम्प्राप्तं दाशूरो ऽर्घ्यसपर्यया । वितीर्णविष्टरं पत्त्रे परया पर्यपूजयत्
ततः कुर्वन् कथास् तेन सह दाशूरभास्वता । तास् तत्तनयसम्बद्धास् संसारोत्तारणक्षमाः
दृष्टवांस् तम् अहं वृक्षं कोरकोत्कटकोटरम् । स्मितेनेव स्फुटरदं श्वसनस्फुरितच्छदम्
दाशूरस्येच्छया सर्वैर् अपतद्भिर् मृगद्विजैः । सेव्यमानं वनम् इव लतामण्डपमण्डितम्
लताकोटितटभ्रान्तैश् चमरैर् इन्दुसुन्दरैः । शुभ्राभ्रखण्डनिकरैश् शरन्नभ इवावृतम्
प्रालेयकणपद्धत्या मुक्तावल्याभ्यलङ्कृतम् । सर्वावयवम् एवाच्छपुष्पपूरैः प्रपूरितम्
स्वरेणुचन्दनालेपैस् समालब्धम् अखण्डितम् । स्वच्छदाभोगविपुलरक्ताम्बरपरिष्कृतम्
विवाहायेव वेषेण पुष्पभारादिहारिणा । लताङ्गनानुषक्तेन नागरेण कृतोद्यमम्
सुनिबद्धजटाकारलतामण्डलमण्डितम् । मञ्जरीभिः पताकाभिर् युक्तं पुरम् इवोत्सवे
मृगकण्डूयनध्वस्तपुष्पधूलिविधूसरम् । प्रोत्सारितोपान्तवनं वृक्षमल्लम् इवोत्थितम्
बर्हिभिः कुसुमोद्वान्तपरागपरिपाटलैः । निक्षेपक्षिप्तसन्ध्याभ्रबालसालम् इवाचलैः
प्रवालारुणहस्तेन शीतलच्छायशायिना । मधुना घूर्णमानेन प्रालेयोत्पुलकत्विषा
नीरन्ध्रपुष्पपूरेण घूर्णितेन वनानिलैः । निद्रालुकुट्मलदृशा स्तबकस्तनधारिणा
पुष्पजालरजःपुञ्जकुङ्कुमारुणवाससा । लताविताननिलयवातायननिषङ्गिणा
नवपुष्पलतादोलालीलयालसलासिना । आपादमस्तकप्रान्तं ससमस्तलतालयम्
वृन्देन वनदेवीनां कोकिलालापशालिना । सन्दिग्धमञ्जरीजालम् अलिनेत्रेण हासिना
अवश्यायोपशमितरतिखेदैर् मदालसैः । पुष्पधूलिसमारब्धैर् आलब्धैर् निबिडं मिथः
पुष्पान्तरान्तःपुरगैः किम् अपि प्रणयोचितम् । ध्वनद्भिर् अभितस् स्वच्छं मत्तालियुगलैर् वृतम्
काननोपान्तनगरीघुङ्घुमाकर्णनेच्छया । क्षणम् उत्कर्णम् आशान्तचारुचर्वणटाङ्कृतैः
क्षणं दलाश्रिविश्रान्तमुग्धमुग्धशिरस्तया । पश्यद्भिर् इन्द्वंशुकचज्जलाम् अर्णवमेखलाम्
वनस्थलीनां तनयैर् नयैर् मूर्तिम् इवास्थितैः । सुप्तैः पत्त्रपुटेष्व् अन्तर् मृगैश् शारलतान्तरम्
नीडश्वसत्सुविश्वस्तसुप्तसार्भकपक्षिणम् । पाकच्युतफलोपान्तवृत्तलम्बिकमण्डलम्
सन्दिग्धमूकभ्रमरं गुच्छेष्व् अब्जाक्षसूत्रकैः । श्यामलीकृतपर्यन्तं नीलैः पल्लवमण्डलैः
सुगन्धिताशेषवनं पुष्पमेघीकृताम्बुदम् । धूलीकदम्बशबलं फलार्थिवलितं तले