यथैवेदं नभश् शून्यं जगच् छून्यं तथैव हि । असन्मयविकल्पोत्थे उभे एते तते यतः
असिद्धं सर्वम् एवैतद् यद् असिद्धेन साधितम् । सङ्कल्पेन जगत् तस्माद् भावना क्वावतिष्ठताम्
सत्यास्थायाम् असत्यां तु किंनिष्ठा वासना भवेत् । वासनाक्षयतस् सिद्धिस् ततः प्राप्यं न शिष्यते
तस्माद् असद् इदं सर्वं द्रष्टव्यं हेलयेद्धया । न तु भावनया तेन सुखदुःखैर् न लिप्यते
अवस्त्व् इतीदं निर्णीय नेहास्था सम्प्रवर्तते । आस्थाक्षये न जायेते हर्षामर्षौ भवाभवौ
मनो मिथ्या करोतीदं सुखदुःखाभ्रविभ्रमम् । मनो जीवस् स्फुरत्य् उच्चैर् मानसं नगरं जगत्
भविष्यद् वर्तमानं च भूतं च परिवर्तयत् । वासनावशतो लोके स्फुरच्छक्ति मनस् स्थितम्
करोति स्वाशयेनेमां व्यवस्थां मलिनश् चलः । आत्मनस् सदृशीं लोलां जीवो हृद्वनमर्कटः
दीर्घम् आकारम् आदाय निमेषाद् यान्ति ह्रस्वताम् । ग्रहीतुं च न युज्यन्ते सङ्कल्पा जडवीचयः
मनाग्दृष्टा विवर्धन्ते दहन्ति सपरिच्छदम् । तृणमात्रेण दीप्यन्ते सङ्कल्पा वह्निशेषवत्
जगत्प्रकटनाकाराः प्रदीप्ताः क्षणभङ्गुराः । भ्रमदा जडसंस्थानास् सङ्कल्पास् तडिदग्नयः
यदैवासन्न् अयं पुत्र तदैवाशु चिकित्सितुम् । शक्यते नात्र सन्देहो नासत् सद् भवति क्वचित्
सन् स्थितो यदि सङ्कल्पो दुश्चिकित्सस् ततो भवेत् । किं त्व् असद्भूत एवैष सुचिकित्सस् तदा भृशम्
अकृत्रिमं चेत् संसारमलम् अङ्गारकार्ष्ण्यवत् । तद् एतत्क्षालने साधो कः प्रवर्तेत दुर्मतिः
किं त्व् एतत् तण्डुले शूकतुषकम्बुकवत् स्थितम् । यदा तदा प्रयत्नेन पौरुषेण विनश्यति
अकृत्रिमम् अपि प्राप्तं भृशं कृत्रिमतां सुत । सुखोच्छेद्यतया ज्ञस्य संसारमलम् आततम्
तण्डुलस्य यथा चर्म यथा ताम्रस्य कालिमा । नश्यति क्रियया पुत्र पुरुषस्य तथा मलम्
जीवस्य तण्डुलस्येव मलं सहजम् अप्य् अलम् । नश्यत्य् एव न सन्देहस् तस्माद् उद्यमवान् भव
असत्कल्पैर् विकल्पैर् यस् संसारो जनितो मुधा । स्तोकेनासौ लयं याति क्वासद् वस्तु किल स्थिरम्
असत्ताम् एति संसारस् स्वां व्यवस्थां विचिन्वतः । दीपालोकाद् इवान्धत्वं द्वीन्दुत्वं स्वीक्षिताद् इव
नेदं तव न चास्य त्वं भ्रान्तिं पुत्र परित्यज । असत्ये सत्यवद् दृष्टे भावनां मा न्यवीविशः
मम गुरुविभवोज्ज्वला विलासा इति तव मास्तु वृथैव विभ्रमो ऽन्तः । त्वयि सति वितताश् च ते विलासा विलसति सर्वम् इदं तदात्मतत्त्वम्
इत्य् आकर्ण्य तदा तत्र रात्राव् आलपनं तयोः । अहं रघुकुलाकाशशशाङ्क रघुनन्दन
पतितः खात् कदम्बाग्रे पत्त्रपुष्पलताकुले । तूष्णीं निर्वृष्टिमूकात्मा शृङ्गाग्र इव तोयदः
अपश्यं तत्र दाशूरं शूरं इन्द्रियनिग्रहे । परेण तपसा युक्तं तेजसेव हुताशनम्
तेजोभिर् देहनिष्क्रान्तैः काञ्चनीकृतभूरुहैः । तापयन्तं प्रदेशं तं भुवनं भास्करं यथा
माम् अथालोक्य सम्प्राप्तं दाशूरो ऽर्घ्यसपर्यया । वितीर्णविष्टरं पत्त्रे परया पर्यपूजयत्
ततः कुर्वन् कथास् तेन सह दाशूरभास्वता । तास् तत्तनयसम्बद्धास् संसारोत्तारणक्षमाः
दृष्टवांस् तम् अहं वृक्षं कोरकोत्कटकोटरम् । स्मितेनेव स्फुटरदं श्वसनस्फुरितच्छदम्
दाशूरस्येच्छया सर्वैर् अपतद्भिर् मृगद्विजैः । सेव्यमानं वनम् इव लतामण्डपमण्डितम्