अनन्तस्यात्मतत्त्वस्य सत्तासामान्यरूपिणः । चितश् चेत्योन्मुखत्वं यत् तत् सङ्कल्पाङ्कुरं विदुः
लेशतः प्राप्तसत्ताकस् स एव घनतां गतः । याति चित्तं खम् आपूर्य दृढजाड्याय मेघवत्
भावयन्ती चितिश् चेत्यं व्यतिरिक्तम् इवात्मनः । सङ्कल्पताम् इहायाति बीजम् अङ्कुरताम् इव
सङ्कल्पनं हि सङ्कल्पस् स्वयम् एष प्रजायते । वर्धते स्वत एवाशु दुःखाय न सुखाय तु
सङ्कल्पमात्रं हि भवाञ् जलमात्रं यथार्णवः । ऋते सङ्कल्पतो ऽन्या ते नास्ति संसारिता ऋता
काकतालीययोगेन सञ्जातो ऽसि मुधैव हि । मृगतृष्णाद्विचन्द्रत्ववद् असत्यं च वर्धसे
निगीर्णमातुलांशस्य कनकप्रत्ययो यथा । स्वयम् अभ्येत्य् असत्यो ऽन्तस् सङ्कल्पस् ते तथा भवेत्
असत्यम् एव जातस् त्वम् असत्यम् अभिवर्धसे । अस्मिञ् जाते च विज्ञाने असत्यस् सन् विलीयसे
अयं सो ऽहम् इमे भावास् सुखदुःखमया मम । व्यर्थम् एवेति सास्थस् त्वं तेनान्तः परितप्यसे
असन्न् एवास्य् अजातो ऽसि कुतो जन्म किलासतः । व्यर्थम् एवावमूढो ऽसि सङ्कल्पवशतस् स्वतः
मा सङ्कल्पय सङ्कल्पं भावं भावय मा स्थितौ । एतावतैव भावेन भव्यो भवसि भूतये
सङ्कल्पनाशने यत्नो न भूयांस् तव गच्छति । भावनाभावमात्रेण सङ्कल्पः क्षीयते हृदि
सुमनःकुसुमामर्दे किञ्चिद् व्यतिकरो भवेत् । सुसाधे ऽभावमात्रेण न तु सङ्कल्पनाशने
पुष्पाक्रान्तौ करस्पन्दयत्नः पुत्रोपयुज्यते । तद् अप्य् उपकरोत्य् अस्मिन् न सङ्कल्पपरिक्षये
सङ्कल्पो येन हन्तव्यस् तेन भावविपर्ययात् । अप्य् अर्धेन निमेषेण लीलयैव विहन्यते
भावमात्रोपशमने स्वात्मनि स्वस्थम् आस्थिते । साध्यते यद् असाध्यं तत् कस्य स्यात् किम् इवामतेः
सङ्कल्पेनैव सङ्कल्पं मनसा स्वमनो मुने । भित्त्वा स्वात्मनि तिष्ठ त्वं किम् एतावति दुष्करम्
उपशान्ते हि सङ्कल्पे उपशान्तम् इदं भवेत् । संसारदुःखम् अतुलं मूलाद् अपि महामते
सङ्कल्पो हि मनो जीवश् चित्तं धीर् अथ वासना । नाम्नैवान्यत्वम् अप्य् एषां नार्थेनार्थविदां वर
सङ्कल्पांशाद् ऋते नेह किञ्चिद् अप्य् अस्ति कुत्रचित् । तम् एव हृदयाच् छिन्द्धि किम् अन्यत् परिशोचसि
यथैवेदं नभश् शून्यं जगच् छून्यं तथैव हि । असन्मयविकल्पोत्थे उभे एते तते यतः
असिद्धं सर्वम् एवैतद् यद् असिद्धेन साधितम् । सङ्कल्पेन जगत् तस्माद् भावना क्वावतिष्ठताम्
सत्यास्थायाम् असत्यां तु किंनिष्ठा वासना भवेत् । वासनाक्षयतस् सिद्धिस् ततः प्राप्यं न शिष्यते
तस्माद् असद् इदं सर्वं द्रष्टव्यं हेलयेद्धया । न तु भावनया तेन सुखदुःखैर् न लिप्यते
अवस्त्व् इतीदं निर्णीय नेहास्था सम्प्रवर्तते । आस्थाक्षये न जायेते हर्षामर्षौ भवाभवौ
मनो मिथ्या करोतीदं सुखदुःखाभ्रविभ्रमम् । मनो जीवस् स्फुरत्य् उच्चैर् मानसं नगरं जगत्
भविष्यद् वर्तमानं च भूतं च परिवर्तयत् । वासनावशतो लोके स्फुरच्छक्ति मनस् स्थितम्
करोति स्वाशयेनेमां व्यवस्थां मलिनश् चलः । आत्मनस् सदृशीं लोलां जीवो हृद्वनमर्कटः
दीर्घम् आकारम् आदाय निमेषाद् यान्ति ह्रस्वताम् । ग्रहीतुं च न युज्यन्ते सङ्कल्पा जडवीचयः
मनाग्दृष्टा विवर्धन्ते दहन्ति सपरिच्छदम् । तृणमात्रेण दीप्यन्ते सङ्कल्पा वह्निशेषवत्