पातालस्थस्य भूस्थस्य स्वर्गस्थस्यापि तत् तव । नान्यः कश्चिद् उपायो ऽस्ति सङ्कल्पोपशमाद् ऋते
अनादाव् अविकारे च सुखे परमपावने । सङ्कल्पोपशमे यत्नं पौरुषेण परं कुरु
सङ्कल्पतन्ताव् अखिला भावाः प्रोताः किलानघ । भिन्ने तन्तौ न जाने ते क्व यान्ति विशरारवः
असत् सत् सदसत् सर्वं सङ्कल्पाद् एव नान्यतः । सङ्कल्पात् सद् असच् चैवम् इह सत्यं किम् उच्यताम्
सङ्कल्प्यते यथा यद् यत् तत् तथा भवति क्षणात् । मा किञ्चिद् अपि तत्त्वज्ञ सङ्कल्पय कदाचन
निस्सङ्कल्पो यथाप्राप्तव्यवहारपरो भव । चिद् अचेत्योन्मुखत्वं हि याति सङ्कल्पसङ्क्षये
उत्थायासत्यरूपेण येनासत्यमयात्मकम् । ततं जगद्दुःखम् इदं व्यर्थं सदृशम् आत्मनः
तेन दुःखाय महते किं श्रितेन किलानघ । यद् अदुःखाय तत् प्राज्ञास् संश्रयन्तीह नेतरत्
अधिगतपरमार्थताम् उपेत्य प्रसभम् अपास्य विकल्पजालम् उच्चैः । अधिगमय पदं तद् अद्वितीयं विततसुखाय सुषुप्तचित्तवृत्तिः
कीदृशस् तात सङ्कल्पः कथम् उत्पद्यते प्रभो । कथं वा वृद्धिम् आयाति कथं चैव विनश्यति
अनन्तस्यात्मतत्त्वस्य सत्तासामान्यरूपिणः । चितश् चेत्योन्मुखत्वं यत् तत् सङ्कल्पाङ्कुरं विदुः
लेशतः प्राप्तसत्ताकस् स एव घनतां गतः । याति चित्तं खम् आपूर्य दृढजाड्याय मेघवत्
भावयन्ती चितिश् चेत्यं व्यतिरिक्तम् इवात्मनः । सङ्कल्पताम् इहायाति बीजम् अङ्कुरताम् इव
सङ्कल्पनं हि सङ्कल्पस् स्वयम् एष प्रजायते । वर्धते स्वत एवाशु दुःखाय न सुखाय तु
सङ्कल्पमात्रं हि भवाञ् जलमात्रं यथार्णवः । ऋते सङ्कल्पतो ऽन्या ते नास्ति संसारिता ऋता
काकतालीययोगेन सञ्जातो ऽसि मुधैव हि । मृगतृष्णाद्विचन्द्रत्ववद् असत्यं च वर्धसे
निगीर्णमातुलांशस्य कनकप्रत्ययो यथा । स्वयम् अभ्येत्य् असत्यो ऽन्तस् सङ्कल्पस् ते तथा भवेत्
असत्यम् एव जातस् त्वम् असत्यम् अभिवर्धसे । अस्मिञ् जाते च विज्ञाने असत्यस् सन् विलीयसे
अयं सो ऽहम् इमे भावास् सुखदुःखमया मम । व्यर्थम् एवेति सास्थस् त्वं तेनान्तः परितप्यसे
असन्न् एवास्य् अजातो ऽसि कुतो जन्म किलासतः । व्यर्थम् एवावमूढो ऽसि सङ्कल्पवशतस् स्वतः
मा सङ्कल्पय सङ्कल्पं भावं भावय मा स्थितौ । एतावतैव भावेन भव्यो भवसि भूतये
सङ्कल्पनाशने यत्नो न भूयांस् तव गच्छति । भावनाभावमात्रेण सङ्कल्पः क्षीयते हृदि
सुमनःकुसुमामर्दे किञ्चिद् व्यतिकरो भवेत् । सुसाधे ऽभावमात्रेण न तु सङ्कल्पनाशने
पुष्पाक्रान्तौ करस्पन्दयत्नः पुत्रोपयुज्यते । तद् अप्य् उपकरोत्य् अस्मिन् न सङ्कल्पपरिक्षये
सङ्कल्पो येन हन्तव्यस् तेन भावविपर्ययात् । अप्य् अर्धेन निमेषेण लीलयैव विहन्यते
भावमात्रोपशमने स्वात्मनि स्वस्थम् आस्थिते । साध्यते यद् असाध्यं तत् कस्य स्यात् किम् इवामतेः
सङ्कल्पेनैव सङ्कल्पं मनसा स्वमनो मुने । भित्त्वा स्वात्मनि तिष्ठ त्वं किम् एतावति दुष्करम्
उपशान्ते हि सङ्कल्पे उपशान्तम् इदं भवेत् । संसारदुःखम् अतुलं मूलाद् अपि महामते
सङ्कल्पो हि मनो जीवश् चित्तं धीर् अथ वासना । नाम्नैवान्यत्वम् अप्य् एषां नार्थेनार्थविदां वर
सङ्कल्पांशाद् ऋते नेह किञ्चिद् अप्य् अस्ति कुत्रचित् । तम् एव हृदयाच् छिन्द्धि किम् अन्यत् परिशोचसि