देहाववरकेष्व् अन्तर् महाहङ्कारयक्षकैः । स हि सङ्क्रीडते ऽत्यर्थम् असद् एवासदुत्थितैः
यथा कुसूले मार्जारो भस्त्रायां भुजगो यथा । मुक्ताफलं यथा वेणाव् अहङ्कारस् तनौ तथा
क्षणम् अभ्युदयं याति क्षणं शाम्यति दीपवत् । देहगेहेषु सङ्कल्पस् तरङ्गस् सागरेष्व् इव
भविष्यन्नवनिर्माणम् अप्य् आप्नोति तदा पुरम् । यदा सङ्कल्पितं वस्तु पुर एव प्रपश्यति
असङ्कल्पनमात्रेण स्वेनैवाशु विनश्यति । श्रेयसे परमायास्य नाशस् स्वो न तु सम्भवः
स्वयं सङ्कल्पनामात्राज् जायते बालयक्षवत् । अनन्तायात्मदुःखाय नानन्दाय कदाचन
इदं स्फारं जगद्दुःखं प्रतनोत्य् आत्मसत्तया । असत्तया नाशयति क्षणम् आन्ध्यं यथा तमः
स्वयैव दुःखदायिन्या चेष्टया परिरोदिति । काष्ठावष्टब्धवृषणः कीलोत्पाटी कपिर् यथा
सङ्कल्पितानन्दलवस् तिष्ठत्य् उद्धुरकन्धरम् । अकस्मात् खच्युतमधुबिन्दुभुक् करभो यथा
स्वयं विरतिम् आयाति क्षणम् एति रतिं क्षणम् । क्षणं विकारम् आयाति सङ्कल्पो ऽभव्यबालवत्
एनं सकलभावेभ्यः कृत्वा निर्मलम् आदरात् । मतिमन्तः पदं याता यथा पुत्र तथा कुरु
त्रयस् त्व् अस्या मतेर् देहा उत्तमाधममध्यमाः । तमस्सत्त्वरजस्सञ्ज्ञाः कारणं जगतस् स्थितेः
तमोरूपो हि सङ्कल्पो नित्यं प्राकृतचेष्टया । परां कृपणताम् एत्य प्रयाति क्रिमिकीटताम्
सत्त्वरूपो हि सङ्कल्पो धर्मज्ञानपरायणः । अदूरकेवलीभावस् साम्राज्यम् अधितिष्ठति
रजोरूपो हि सङ्कल्पो लोकसंव्यवहारवान् । परितिष्ठति संसारे पुत्रदारानुरञ्जितः
त्रिविधं तु परित्यज्य रूपम् एतन् महामते । सङ्कल्पः परम् आयाति पदम् आत्मपरिक्षये
सर्वा दृष्टीः परित्यज्य नियम्य मनसा मनः । सबाह्याभ्यन्तरार्थस्य सङ्कल्पस्य क्षयं कुरु
यदि वर्षसहस्रान्तं तपश् चरसि दारुणम् । यदि वा लीलयात्मानं शिलया चूर्णयस्य् अलम्
यद्य् अम्बुधिं प्रविशसि वडवाग्निम् अथापि वा । यदि वा पतसि श्वभ्रे खड्गधाराजले ऽथ वा
हरो यद्य् उपदेष्टा ते हरिः कमलजो ऽपि वा । अत्यन्तकरुणाक्रान्तो लोकनाथो ऽथ वाक्पतिः
पातालस्थस्य भूस्थस्य स्वर्गस्थस्यापि तत् तव । नान्यः कश्चिद् उपायो ऽस्ति सङ्कल्पोपशमाद् ऋते
अनादाव् अविकारे च सुखे परमपावने । सङ्कल्पोपशमे यत्नं पौरुषेण परं कुरु
सङ्कल्पतन्ताव् अखिला भावाः प्रोताः किलानघ । भिन्ने तन्तौ न जाने ते क्व यान्ति विशरारवः
असत् सत् सदसत् सर्वं सङ्कल्पाद् एव नान्यतः । सङ्कल्पात् सद् असच् चैवम् इह सत्यं किम् उच्यताम्
सङ्कल्प्यते यथा यद् यत् तत् तथा भवति क्षणात् । मा किञ्चिद् अपि तत्त्वज्ञ सङ्कल्पय कदाचन
निस्सङ्कल्पो यथाप्राप्तव्यवहारपरो भव । चिद् अचेत्योन्मुखत्वं हि याति सङ्कल्पसङ्क्षये
उत्थायासत्यरूपेण येनासत्यमयात्मकम् । ततं जगद्दुःखम् इदं व्यर्थं सदृशम् आत्मनः
तेन दुःखाय महते किं श्रितेन किलानघ । यद् अदुःखाय तत् प्राज्ञास् संश्रयन्तीह नेतरत्
अधिगतपरमार्थताम् उपेत्य प्रसभम् अपास्य विकल्पजालम् उच्चैः । अधिगमय पदं तद् अद्वितीयं विततसुखाय सुषुप्तचित्तवृत्तिः
कीदृशस् तात सङ्कल्पः कथम् उत्पद्यते प्रभो । कथं वा वृद्धिम् आयाति कथं चैव विनश्यति