सूर्यांशुकचदालोलतरङ्गोत्तुङ्गमौक्तिकाः । वहन्त्यस् सरितो यत्र सन्मुक्तावलयश् चलाः
इक्षुक्षीरादिसलिला मणिरत्नबिसाङ्कुराः । और्वानलाम्बुजा यत्र वाप्यस् सप्त महार्णवाः
अध उर्व्यां तथोर्ध्वे खे पुण्यापुण्यधनश्रियः । नरामरकिराटानां यत्रातिक्रयविक्रयौ
तस्मिन्न् एव जगत्य् अस्मिन् पुरे सङ्कल्पभूभुजा । क्रीडार्थम् आत्मनश् चित्रा देहाववरकाः कृताः
केचिद् गीर्वाणनामान ऊर्ध्व एव नियोजिताः । नरोरगादयः केचिद् अध एव निवेशिताः
वातयन्त्रप्रवाहेण चलन्तो मांसमृण्मयाः । सितास्थिदारवश् चित्रास् त्वग्लेपमसृणामलाः
केचिच् चिरेण नश्यन्ति केचिच् छीघ्रविनाशिनः । कचकृष्णोलपोल्लासरचिताच्छादनश्रियः
कर्णाक्षिनासाप्रमुखैर् द्वारैर् नवभिर् अन्विताः । अनारतवहत्प्राणपवनेनोष्णशीतलाः
कर्णनासास्यताल्वादिवातायनगणान्विताः । भुजाद्यङ्गप्रतोलीकाः पञ्चेन्द्रियकुदीपकाः
मायया रचितास् तेषु सङ्कल्पेन महामते । अहङ्कारमहायक्षाः परमालोकभीरवः
देहाववरकेष्व् अन्तर् महाहङ्कारयक्षकैः । स हि सङ्क्रीडते ऽत्यर्थम् असद् एवासदुत्थितैः
यथा कुसूले मार्जारो भस्त्रायां भुजगो यथा । मुक्ताफलं यथा वेणाव् अहङ्कारस् तनौ तथा
क्षणम् अभ्युदयं याति क्षणं शाम्यति दीपवत् । देहगेहेषु सङ्कल्पस् तरङ्गस् सागरेष्व् इव
भविष्यन्नवनिर्माणम् अप्य् आप्नोति तदा पुरम् । यदा सङ्कल्पितं वस्तु पुर एव प्रपश्यति
असङ्कल्पनमात्रेण स्वेनैवाशु विनश्यति । श्रेयसे परमायास्य नाशस् स्वो न तु सम्भवः
स्वयं सङ्कल्पनामात्राज् जायते बालयक्षवत् । अनन्तायात्मदुःखाय नानन्दाय कदाचन
इदं स्फारं जगद्दुःखं प्रतनोत्य् आत्मसत्तया । असत्तया नाशयति क्षणम् आन्ध्यं यथा तमः
स्वयैव दुःखदायिन्या चेष्टया परिरोदिति । काष्ठावष्टब्धवृषणः कीलोत्पाटी कपिर् यथा
सङ्कल्पितानन्दलवस् तिष्ठत्य् उद्धुरकन्धरम् । अकस्मात् खच्युतमधुबिन्दुभुक् करभो यथा
स्वयं विरतिम् आयाति क्षणम् एति रतिं क्षणम् । क्षणं विकारम् आयाति सङ्कल्पो ऽभव्यबालवत्
एनं सकलभावेभ्यः कृत्वा निर्मलम् आदरात् । मतिमन्तः पदं याता यथा पुत्र तथा कुरु
त्रयस् त्व् अस्या मतेर् देहा उत्तमाधममध्यमाः । तमस्सत्त्वरजस्सञ्ज्ञाः कारणं जगतस् स्थितेः
तमोरूपो हि सङ्कल्पो नित्यं प्राकृतचेष्टया । परां कृपणताम् एत्य प्रयाति क्रिमिकीटताम्
सत्त्वरूपो हि सङ्कल्पो धर्मज्ञानपरायणः । अदूरकेवलीभावस् साम्राज्यम् अधितिष्ठति
रजोरूपो हि सङ्कल्पो लोकसंव्यवहारवान् । परितिष्ठति संसारे पुत्रदारानुरञ्जितः
त्रिविधं तु परित्यज्य रूपम् एतन् महामते । सङ्कल्पः परम् आयाति पदम् आत्मपरिक्षये
सर्वा दृष्टीः परित्यज्य नियम्य मनसा मनः । सबाह्याभ्यन्तरार्थस्य सङ्कल्पस्य क्षयं कुरु
यदि वर्षसहस्रान्तं तपश् चरसि दारुणम् । यदि वा लीलयात्मानं शिलया चूर्णयस्य् अलम्
यद्य् अम्बुधिं प्रविशसि वडवाग्निम् अथापि वा । यदि वा पतसि श्वभ्रे खड्गधाराजले ऽथ वा
हरो यद्य् उपदेष्टा ते हरिः कमलजो ऽपि वा । अत्यन्तकरुणाक्रान्तो लोकनाथो ऽथ वाक्पतिः