को ऽसौ स्वोत्थ इति ख्यातो भूपस् तातोत्तमाकृतिः । कथितं च किम् एतन् मे त्वयैतद् ब्रूहि तत्त्वतः
क्व भविष्यति निर्माणं वर्तमाने क्व गम्यताम् । उभयार्थविरुद्धत्वान् मोहार्थाय वचस् तव
शृणु पुत्र यथाभूतम् एतत् ते कथयाम्य् अहम् । येन संसारचक्रस्य तत्त्वम् अस्यावबुध्यसे
असदभ्युत्थितारम्भम् अवस्तुमयम् आततम् । संसारसंस्थानम् इदम् एवम् आकथितं मया
परमान् नभसो जातस् सङ्कल्पस् स्वोत्थ उच्यते । जायते स्वयम् एवासौ स्वयम् एव विलीयते
तत्स्वरूपम् इदं सर्वं जगद् आभोगि विद्यते । जायते तेन जातेन तस्मिन् नष्टे विनश्यति
ब्रह्मविष्ण्विन्द्ररुद्रादींस् तस्यैवावयवान् विदुः । विटपान् इव वृक्षस्य शृङ्गाणीव महीभृतः
शून्ये व्योमनि तेनेदं निर्मितं त्रिजगत्पुरम् । प्रतिभासानुसन्धानमात्रेणैत्य विरिञ्चताम्
यत्रेमे विततालोका लोककोशाश् चतुर्दश । वनोपवनपाल्यश् च यत्रोद्यानपरम्पराः
क्रीडाशिखरिणो यत्र सह्यमन्दरमेरवः । शीतोष्णदीप्ती चन्द्रार्कौ दीपौ यत्रानिलाक्षतौ
सूर्यांशुकचदालोलतरङ्गोत्तुङ्गमौक्तिकाः । वहन्त्यस् सरितो यत्र सन्मुक्तावलयश् चलाः
इक्षुक्षीरादिसलिला मणिरत्नबिसाङ्कुराः । और्वानलाम्बुजा यत्र वाप्यस् सप्त महार्णवाः
अध उर्व्यां तथोर्ध्वे खे पुण्यापुण्यधनश्रियः । नरामरकिराटानां यत्रातिक्रयविक्रयौ
तस्मिन्न् एव जगत्य् अस्मिन् पुरे सङ्कल्पभूभुजा । क्रीडार्थम् आत्मनश् चित्रा देहाववरकाः कृताः
केचिद् गीर्वाणनामान ऊर्ध्व एव नियोजिताः । नरोरगादयः केचिद् अध एव निवेशिताः
वातयन्त्रप्रवाहेण चलन्तो मांसमृण्मयाः । सितास्थिदारवश् चित्रास् त्वग्लेपमसृणामलाः
केचिच् चिरेण नश्यन्ति केचिच् छीघ्रविनाशिनः । कचकृष्णोलपोल्लासरचिताच्छादनश्रियः
कर्णाक्षिनासाप्रमुखैर् द्वारैर् नवभिर् अन्विताः । अनारतवहत्प्राणपवनेनोष्णशीतलाः
कर्णनासास्यताल्वादिवातायनगणान्विताः । भुजाद्यङ्गप्रतोलीकाः पञ्चेन्द्रियकुदीपकाः
मायया रचितास् तेषु सङ्कल्पेन महामते । अहङ्कारमहायक्षाः परमालोकभीरवः
देहाववरकेष्व् अन्तर् महाहङ्कारयक्षकैः । स हि सङ्क्रीडते ऽत्यर्थम् असद् एवासदुत्थितैः
यथा कुसूले मार्जारो भस्त्रायां भुजगो यथा । मुक्ताफलं यथा वेणाव् अहङ्कारस् तनौ तथा
क्षणम् अभ्युदयं याति क्षणं शाम्यति दीपवत् । देहगेहेषु सङ्कल्पस् तरङ्गस् सागरेष्व् इव
भविष्यन्नवनिर्माणम् अप्य् आप्नोति तदा पुरम् । यदा सङ्कल्पितं वस्तु पुर एव प्रपश्यति
असङ्कल्पनमात्रेण स्वेनैवाशु विनश्यति । श्रेयसे परमायास्य नाशस् स्वो न तु सम्भवः
स्वयं सङ्कल्पनामात्राज् जायते बालयक्षवत् । अनन्तायात्मदुःखाय नानन्दाय कदाचन
इदं स्फारं जगद्दुःखं प्रतनोत्य् आत्मसत्तया । असत्तया नाशयति क्षणम् आन्ध्यं यथा तमः
स्वयैव दुःखदायिन्या चेष्टया परिरोदिति । काष्ठावष्टब्धवृषणः कीलोत्पाटी कपिर् यथा
सङ्कल्पितानन्दलवस् तिष्ठत्य् उद्धुरकन्धरम् । अकस्मात् खच्युतमधुबिन्दुभुक् करभो यथा
स्वयं विरतिम् आयाति क्षणम् एति रतिं क्षणम् । क्षणं विकारम् आयाति सङ्कल्पो ऽभव्यबालवत्