कदाचिद् अथ मार्गेण तेन कैलासवाहिनीम् । अहं स्नातुम् अदृश्यात्मा व्योमवीथिगतो ऽगमम्
निर्गत्य नभसस् सप्तमुनिमण्डलकोटरात् । रात्रौ प्राप्तो ऽस्मि सुमते दाशूरतरुपृष्ठखम्
यावच् छृणोमि विटपकुहरात् कानने वचः । कुट्मलाम्भोजबद्धस्य षट्पदस्येव निस्स्वनम्
शृणु पुत्र महाबुद्धे वस्तुनो ऽस्य समाम् इमाम् । वर्णयामि महाश्चर्याम् एकाम् आख्यायिकां तव
अस्ति राजा महावीर्यो विख्यातो भुवनत्रये । नाम्ना स्वोत्थ इति श्रीमाञ् जगदाक्रमणे क्षमः
यस्यानुशासनं सर्वे भुवनेष्व् अपि नायकाः । शिरोभिर् धारयन्त्य् उच्चैश् चूडामणिम् इवोत्तमम्
यस् साहसैकरसिको नानाश्चर्यविहारवान् । केनचित् त्रिषु लोकेषु न महात्मा वशीकृतः
यस्यारम्भसहस्राणि सुखदुःखप्रदान्य् अलम् । सङ्ख्यातुं नैव शक्यन्ते कल्लोला जलधेर् इव
यस्य वीर्यं सुवीर्यस्य न शस्त्रास्त्रैर् न पावकैः । केनचिद् भुवने क्रान्तम् आकाशम् इव मुष्टिना
यदीयां विततारम्भां लीलां निर्माणभासुराम् । न मनाग् अनुकुर्वन्ति शक्रोपेन्द्रहरा अपि
त्रयस् तस्य महाबाहो देहा दिग्भरणक्षमाः । जगद् आकृष्य तिष्ठन्ति उत्तमाधममध्यमाः
व्योमन्य् एवातिवितते जातो ऽसौ त्रिशरीरकः । तत्रैव च स्थितिं यातश् शब्दवातखपक्षिवत्
तत्रैवापारगगने नगरं तेन निर्मितम् । चतुर्दशमहारथ्यं विभागत्रयभूषितम्
वनोपवनमालाढ्यं क्रीडाशिखरिसुन्दरम् । मुक्तालताविवलितं वापीसप्तकभूषितम्
शीतलोष्णात्मकाक्षीणदीपद्वयविराजितम् । ऊर्ध्वाधोगतिरूपेण वणिङ्मार्गेण सङ्कुलम्
तस्मिन्न् एवातिविपुले पत्तने तेन भूभृता । सञ्चारिणो विरचिता मुग्धाववरका गणाः
ऊर्ध्वे केचिद् अधः केचिन् मध्ये केचिन् नियोजिताः । केचिच् चिरेण नश्यन्तः केचिच् छीघ्रविनाशिनः
असितच्छादनाच्छन्ना नवद्वारविभूषिताः । अनारतवहद्वाता बहुवातायनान्विताः
दीपपञ्चकसालोकास् त्रिस्थूणाश् शुक्लदारवः । मसृणालेपमृदवः प्रतोलीकुलसङ्कुलाः
मायया रचितास् तेन राज्ञा तेषु महामते । रक्षितारो महायक्षा नित्यम् आलोकभीरवः
अथाववरकौघेषु चलत्सु स महीपतिः । करोति विविधाः क्रीडा नीडेष्व् इव विहङ्गमः
त्रिशरीरस् स तेष्व् अन्तस् तैर् यक्षैस् सह पुत्रक । लीलालसम् उषित्वाशु पुनर् निष्क्रम्य गच्छति
तस्येच्छा जायते वत्स कदाचिच् चलचेतसः । पुरं भविष्यन्निर्माणं किञ्चिद् यामीति निश्चला
भूताविष्ट इवावेगात् तत उत्थाय धावति । पुरं तद् अप्य् अवाप्नोति गन्धर्वैर् इव निर्मितम्
तस्येच्छा जायते नाम कदाचिज् जडचेतसः । विनाशं सम्प्रयामीति तेनाशु स विनश्यति
पुनर् उत्पद्यते तूर्णं खान् महोर्मिर् इवाम्भसः । व्यवहारं तनोत्य् उच्चैः पुनर् आरम्भमन्थरम्
स्वयैव व्यवहृत्याथ कदाचित् परिदूयते । किं करोमीदम् अज्ञो ऽस्मि दुःखितो ऽस्मीति शोचति
मुदम् एत्य कदाचिच् च स्वयम् आयाति पीनताम् । प्रावृड्वर्षजलोल्लासपूराद् इव नदीरयः
पिबति वल्गति गच्छति जृम्भते स्फुरति भाति न भाति च भासुरः । सुत महामहिमा स महीपतिः पतिर् अपाम् इव वातरयाकुलः
अथापृच्छत् सुतस् तत्र जम्बुद्वीपे महानिशि । कदम्बाग्रावचूलस्थं पितरं पावनाशयः